________________
२०२ संगीतरत्नाकरः
[जातिगः ; तच्छेषः सः ; खून गः (५) । षष्ठयां मध्ये सो लघुः ; मन्द्रे धो लघुः; धनी लघुः ; पो लघुः; मध्ये साश्चत्वारो लघवः । वमित्यक्षरयोजना-चेन सानुनासिकेन सः; तच्छेषा इतरे (६) । सप्तम्यां मध्ये ससगसमपममा लघवः सरसकृततिलकाक्षरैः क्रमेण युक्ताः (७) । अष्टम्यां मध्ये सो लघुः; गो लघुः; मो लघुः ; धनी लघुः ; निधौ लघुः ; पो लघुः ; गो लघुः ; रिगौ लघुः । पङ्कानुलेपेत्यक्षरयोजना–सानुनासिकेन पेन सः; तच्छेषौ गमौ ; दीर्पण केन धः; तच्छेषो निः; नुना निः : तच्छेषो धः; लेऽक्षरेण पः; पेन गः ; तच्छेषौ रिगौ (८) । नवम्यां मध्ये गाश्चत्वारो लघवः; साश्चत्वारो लघवः ; नमित्यक्षरयोजना--नेन सानुनासिकेन गः ; तच्छेषा इतरे (९) । दशम्यां मन्द्रे धो लघुः ; मध्ये सो लघुः ; रिर्लघुः ; गरी लघुः ; समममा लघवः । प्रणमामि कामेत्यक्षरयोजनाप्रणमाऽक्षरैर्धसरयः; तच्छेषौ गरी; मिना सः ; दीर्पण केन मः ; तच्छेषो मः ; ततो मेन मः (१०) । एकादश्यां मध्ये धनिपा लघवः ; धनी लघुः; रिगरिसा लघवः । देहेन्धनानेत्यक्षरयोजना-देकारेण धः; तच्छेषो निः; हे, इत्यनेन पः; तच्छेषौ धनी ; धनानेत्येतैः क्रमेण रिगरयः । तच्छेषः सः (११) । द्वादश्यां मध्ये रिगौ लघुः ; सरिगास्त्रयो लघवः ; चत्वारः षड्जा लघवः । लमित्यक्षरयोजना-लेन सानुनासिकेन रिः; शेषाः सर्वे ऽपि स्वराः (१२) ।
तं भवललाटनयनाम्बुजाधिकं नगसूनुप्रणयकेलिसमुद्भवम् ।
सरसकृततिलकपङ्कानुलेपनं प्रणमामि कामदेहेन्धनानलम् ॥ अत्र स्वरसंख्या ऽल्पत्वबहुत्वपरिज्ञानाय लिख्यते । षड्जाः षट्त्रिंशत् ; ऋषभा द्वादश ; गांधारा विंशतिः; मध्यमा अष्टौ ; पञ्चमा अष्टौ; धैवताः षोडश ; निषादा द्वादशेति मिलिता द्वादशोत्तरं शतम् । अयं
Scanned by Gitarth Ganga Research Institute