________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः
अथार्थ भी
आर्षभ्यां तु त्रयो ऽंशाः स्युर्निपादर्षभधैवताः || ६४ ॥ द्विश्रुत्योः संगतिः शेषैर्लङ्ङ्घनं पञ्चमस्य च । षाडवं षड्जलोपेन सपलोपादिहौडुवम् ।। ६५ ।। मूर्च्छना पञ्चमादिश्च तालश्चच्चत्पुटो मतः । अष्टौ कला भवन्तीह विनियोगस्तु पूर्ववत् ।। ६६ ।।
२०३
प्रस्तारः षड्जांशत्वे । गांधाराद्यंशत्वे ऽप्येवमेवाशबहुत्वादिना सम्यविचार्योद्धारो नेयः । गांधाराद्यंशत्वमपि स्वस्थानस्थितानामेव । तेषां स्थायित्वकरणमपि वीणायामुपतन्त्रीणां स्वनादसाम्यापादनमिति रहस्यम् । षाड्ज्यादिसर्वजातिप्वंशस्वरगतो रसो वेदितव्यः ॥ इति षाड्जी ॥ १ ॥
(क०) आर्षभ्यां त्विति । तुशब्दो ऽस्यां षाड्जीवैलक्षण्यद्योतनार्थः । निषादर्षभधैवतास्त्रयो ऽंशा ग्रहाश्च स्युः । द्विश्रुत्योर्गाधारनिषादयोः प्रत्येकं शेषैः सरिमपधैः पञ्चभिर्यथायोगं संगतिः संबन्धः । एतेन गांधारनिषादयोबहुत्वमितरेषामल्पत्वमिति च सूचितम् । पञ्चमस्य लङ्घनं च । लङ्घनमल्पतरत्वम् । चकारादल्पत्वं च संपूर्णताऽवस्थायां भवति । षाडवं षड्जलोपेनेत्यादि स्फुटार्थम् ॥ - ६४–६६॥
1
(सु० ) आर्षभ लक्षयति--- आर्षभ्यामिति । आर्षभ्यां निषादर्षभधैवतायो ऽंशाः । गांधारनिषादयोद्विश्रुत्योरन्यैः स्वरैः सह संगतिः । पञ्चमस्येषत्स्पर्शः । षड्जाभावेन षाडवत्वम् । षड्जपञ्चमाभावेन चौडुवितत्वम् | पञ्चमादिर्मूर्च्छना । चच्चत्पुरस्तालः । अष्टौ कलाः । विनियोगः पूर्ववन्नैकामिकध्रुवायाम् ॥ ६४-६६॥
Scanned by Gitarth Ganga Research Institute