SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः कर्तव्यम् । यदाह मतङ्गः–'शुद्धत्वे षड्जश्चापन्यासः' इति । वराटी दृश्यत इति । यदा विकृतावस्थायामपि काकलीप्रयोगस्तदा वराटी प्रतीयते । अन्यदा वराटयेकदेशप्रतीतिरेवेत्यर्थः । प्रस्तार इह कलासु स्वरसंनिवेशः; क्रियत इति शेषः । तत्र षड्जग्रामे शुद्धस्वरमेलने प्रथमकलायां तावन्मध्यस्थानस्थितः षड्जः पञ्चलघ्वक्षरोच्चारमितलघुकालश्चतुर्वारमावर्त्यते ; ततस्तत्स्थान एव पञ्चमो लघुकाल एकः ; ततस्तत्रत्यावेव निषादधैवतौ मिलित्वैकलघुकालौ; पुनः पञ्चम एकलघुकालः ; ततो धैवतनिषादौ मिलित्वैकलघुकालौ ; इत्येका कला । अस्यां तं भवललाटेति ब्रह्मप्रोक्तपदाक्षरैः स्वरयोजनाप्रकारस्तु-तं, इति सानुनासिकेन प्रथमः षड्जः ; तच्छेषतयैव द्वितीयः ; भवाभ्यां तृतीयचतुर्थी ; लेन पञ्चमः ; लेन दीर्पण निषादः; तच्छेपत्वेन धैवतपञ्चमौ ; टेन धैवतः ; तच्छेषो निषाद इति (१)। द्वितीयस्यां मध्यस्थाने रिलघुः ; गमौ लघुः ; द्वौ गौ लघू ; सो लघुः ; रिगौ लघुः ; धसौ लघुः ; धो लघुः । अत्र नयनाम्बुजाधीत्यक्षरयोजना-नेन रिः; येन गः; तच्छेषो मः; सानुनासिकदीर्पण नेन गः; तच्छेषो गः; बुना सः; दीर्पण जेन रिः; तच्छेषा गधसाः; धिना धः (२) । तृतीयस्यां रिगौ लघुः ; सरिगास्त्रयो लघवः ; ततश्चत्वारः षड्जा लघवः । अत्र कमित्यक्षरयोजना-केन सानुनासिकेन रिः; तच्छेषा इतरे स्वराः (३)। चतुर्थ्यो मध्यस्थानौ धौ लघू ; निर्लघुः ; नितारसौ लघुः ; मध्ये निधौ लघुः ; पो लघुः ; तारे सौ लघू । नगसूनुप्रणयेत्यक्षरयोजना-नगसूभिर्धधनयः ; तच्छेषौ निसौ ; नुना निः; तच्छेषो धः ; प्रणयैः पससाः (४) । पञ्चम्यां मध्यस्थाने निधपा लघवः ; धनी लघुः; रिगसगा लघवः । केलिसमुद्रेत्यक्षरयोजना-केऽक्षरेण निः; तच्छेषो धः; लीत्यनेन पः; तच्छेषौ धनी ; सेन रिः; मु, इत्यनेन 26 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy