________________
प्रकरणम् ७] प्रथमः स्वरगताध्यायः
अस्यां पाड्ज्यां पड्जो न्यासः। गांधारपञ्चमावपन्यासौ । वराटी दृश्यते । अस्याः प्रस्तारः
१. षाड्जी १. सा सा सा सा पा निध पा धनि ___तं भ व ल ला ट
गम्यते । तथा च वक्ष्यति - 'योक्ता ऽस्माभिः कलासंख्या सा दक्षिणपथे स्थिता' इति । अतो ऽत्र चतुप्कलस्य पञ्चपाणेर्द्विरावृत्तिरवगन्तव्या । यदा तु वृत्तिमार्गाश्रयणेन चतुर्विंशतिः कलास्तदा द्विकलपञ्चपाणेश्चतुरावृत्तयः । यदा पुनश्चित्रमार्गाश्रयणेनाप्टाचत्वारिंशत्कलास्तदा यथाऽक्षरपञ्चपाणेरष्टावृत्तयः । एवं तालान्तरमप्यूह्यम् ।।-५९-६३ ॥
(सु०) अथैतासां जातीनां प्रत्येकं लक्षणं कथयितुं प्रतिजानीतेअथेति । षाड्जीलक्षणं कथयति-पाड्ज्यामिति । षाड्ज्यां षड्जगांधारमध्यमपञ्चमधैवता अंशाः। तेषां च विकल्पेनांशत्वम् , 'गांधारे ऽशे न नेर्लोपः' इति वक्ष्यमाणत्वात् । मतङ्गेनाप्युक्तम्-'इति त्रिषष्टिरंशाः स्युस्तेषामेकैकशो ऽशता' इति । निषादलोपेन षाडवम् । स निषादः पूर्णत्वे काकली। षडूजगांधारयोः षड्जधैवतयोश्च संगतिः । गांधारस्य बाहुल्यम् । गांधारो यदा इंशस्तदा निलोपात्षाडवं नास्ति । धैवतादिमूछना । पञ्चपाणिः पितापुत्रक एककलो विकलश्चतुष्कलश्चात्र तालः । यदैककलस्तदा चित्रो मार्गः; यदा द्विकलस्तदा वार्तिकः ; यदा चतुष्कलस्तदा दक्षिणो मार्ग इति । गीतयः पुन:यदा चित्रो मार्गस्तदा मागधी ; यदा वार्तिकस्तदा संभाविता ; यदा दक्षिणस्तदा पृथुला । प्रथमे प्रेक्षणे नष्कामिकध्रुवायां विनियोगः । अत्र द्वादश कलाः । कलायामष्टौ गुरवः ।। -५९-६३. ॥
(क०) अस्यां षाड्ज्यां षड्जो न्यास इति वदतो ऽयं भावःअस्यां षाज्यां विकृतावस्थासु ग्रहादीनामनियमत्वे ऽपि नामस्वरस्यैव
Scanned by Gitarth Ganga Research Institute