________________
१९८
संगीतरत्नाकरः
[जातिविनियोगो द्वादशात्र कला अष्टलघुः' कला। इति प्रवेशाद्यर्थसूचनादेतासामन्वर्थता ज्ञेया । अपकृष्टे ताडिताऽऽदयो गुरुलध्वक्षरोभयप्रायास्त्रिविधा अपि ध्रुवाजातयः प्रावेशिक्यादीनामेवावान्तरभिदाः । एतासां सतालत्वमेव पदमधिकृत्योक्तम् ‘सतालं च ध्रुवाऽर्थेषु निबद्धम्' इति । तत्रैव स्मृतम् ‘अनिबद्धाक्षराणि स्युस्तेनेनप्रभृतीनि च'' इति । 'तत्राङ्कान्ते निष्क्रमणे भवेत्त्र्यश्रावसानिकी' । अस्याः प्रस्तुतार्थनियोगः
‘निष्कामोपगतगुणां विद्यान्नैप्क्रामिकी तां तु ।' 'अथोत्तमानां कर्तव्या चतुरश्रावसानिकी ।
अधमानां तु कर्तव्या ध्रुवा व्यावसानिकी ॥' नैष्कामिकी-त्र्यविरामस्त्रिकलश्चतुरश्रे चतुष्कलः ।
प्रावेशिक्यां ध्रुवायां तु नैष्क्रामिक्यां तथैव च ॥' इति । एवं तत्तत्तालविशेषनियतायां नैष्कामिक्यां ध्रुवायां विनियोगः । ध्रुवापदानामेतज्जात्युक्तस्वरसंदर्भेण योजनं नाट्याङ्गत्वेन । चकारात्स्वातन्व्येणापि ब्रह्मप्रोक्तपदैरन्यैर्वा शंकरस्तुतावेव विनियोगः समुच्चीयते । स्मृतः, भरतादिभिरिति शेषः । द्वादशात्र कला इति । अत्र षाज्यां कलाः कालविशेषा द्वादश, अत्रोक्तस्य पञ्चपाणेर्यथाऽक्षरत्वे द्वादशमात्रिकत्वात् । कलाशब्देन प्रतीतस्य कालविशेषस्य ध्रुवाऽऽदिमार्गभेदाश्रितत्वेनानेकरूपत्वादिह किंप्रमाणो विवक्षित इत्याकाङ्क्षायामाह-अष्टलघुः कलेति । अत्र लघुशब्देन पञ्चलघ्वक्षरोच्चारमितः कालो विवक्ष्यते । तादृशा अष्टौ लघवो यस्याः कलायाः सा ऽष्टलघुः । एतेनात्र कला दक्षिणमार्गाश्रितेति
अश्गुरुः
'स्युर्यान्यजातिकृतानि तु.
Scanned by Gitarth Ganga Research Institute