SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः त्रिधा ताल: पञ्चपाणिरत्र चैककलाऽऽदिकः । क्रमान्मार्गाश्चित्रवृत्तिदक्षिणा गीतयः पुनः ॥ ६२ ॥ मागधी संभाविता च पृथुलेति क्रमादिमाः । नैष्क्रामिकध्रुवायां च प्रथमे प्रेक्षणे स्मृतः ।। ६३ ।। वीत्यर्थः । अस्यां तालमार्गगीतिविनियोगानां नियमं दर्शयति-- त्रिधा ताल इत्यादिना । अत्र षाड्ज्याम्, एककलाऽऽदिकः, एककलो द्विकलश्चतुष्कल इति त्रिधा च पञ्चपाणिः षट्पितापुत्रकः, प्रयोक्तव्य इति शेषः । क्रमान्मार्गा इत्यनेनैककले पञ्चपाणौ चित्रो मार्गो मागधी गीतिः, द्विकले वार्त्तिको मार्गः संभाविता गीतिः, चतुष्कले दक्षिणो मार्गः पृथुला गीतिरिति क्रमो दर्शितः । अत्र षाड्ज्यामित्युपलक्षणम् । जात्यन्तरेष्वपि तालान्तरेष्वये कलत्वादीनां योजना कर्तव्या, उत्तरत्र ' योक्ता ऽस्माभिः कलासंख्या ' इत्यादिना सामान्येन वक्ष्यमाणत्वात् । तालादीनां लक्षणं तु स्वप्रकरणे वक्ष्यते । तथा प्रथमे प्रेक्षणे नैष्क्रामिकधुवायां च विनियोगः स्मृतइति योजना । प्रथमप्रेक्षणे नाटकादीनां प्रथमाङ्के । नैष्क्रामिकधुवायामिति । ध्रुवासामान्यलक्षणं तावद्भरतोक्तम् ' यानि चैवं निबद्धानि च्छन्दोवृत्तिविधानतः । मुखप्रतिमुखादीनि गीताङ्गान्येव सर्वशः || यदात्मकानि तानि स्युर्ध्रुवासंज्ञानि नाटके । ' इति । तद्विशेषाश्च - १९७ 'प्रावेशिकी तु प्रथमा द्वितीया ऽऽक्षेपिकी स्मृता ॥ प्रासादिकी तृतीया च चतुर्थी चान्तरा ध्रुवा । नैकामिकी तु विज्ञेया पञ्चमी तु ध्रुवा बुधैः ॥ ' Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy