SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९६ [जाति संगीतरत्नाकर: षाड्ज्यामंशाः स्वराः पञ्च निषादर्षभवर्जिताः । निलोपात्पाडवं सोऽत्र पूर्णत्वे काकली कचित् || ६० ॥ सगयोः सधयोश्चात्र संगतिर्वहुलस्तु गः । गांधारे शे न नेर्लोपो मूर्च्छना धैवतादिका ॥ ६१ ॥ योजयित्वा सप्रस्तारं दर्शयितुमाह - अथ प्रत्येकमित्यादिना । प्रत्येकमेकस्यामेकस्याम् । यथाऽर्थे वीप्सायामव्ययीभावः । तासु षाड्ज्यां निषादर्षभवर्जिताः पञ्च स्वराः सगमपधा अंशाः । ते पर्यायेण वादिनो ग्रहाश्च भवन्तीत्यर्थः । निलोपान्निषादपरित्यागात्पाडवं षट्स्वरप्रयोगः, कार्यमिति शेषः । स निषादः, अत्र षाड्ज्यां पूर्णत्वे संपूर्णावस्थायां कचित्षड्जस्य वादित्वे विकृतदशायां काकली भवति । सगयोः सधयोश्चात्र संगतिरिति । अत्र षड्जस्य गांधारेणैकान्तरितेन तादृशेनैव धैवतेन च यथारक्ति संबन्धः सगसगसधेति गसगसधसेति वा कार्यः ; गस्तु गांधारस्तु बहुल इति । यद्यपि 'निगावन्यविवादिनौ' इति विवादित्वाद्गांधारस्याप्राप्तं बहुत्वम्, तथा sपि ' गांधारस्य च बाहुल्यम् ' इति मुनिवचनाद्विधीयत इति तुशब्दार्थः । गांधारे शे न नेर्लोपः । निषादस्य गांधारसंवादित्वादंशसंवादिनो लोपा - भावादिति भावः । एतेनावस्थाद्वयवत्या अप्यस्याः षाड्ज्या गांधारस्यांशत्वे निलोपप्रतिषेधेन षाडवापवादात्पूर्णताऽवस्थैवेत्युक्तं भवति । अतोऽस्याः समपधेषु चतुर्व्वशेषु संपूर्णत्वपाडवत्वाख्यावस्थाद्वयं व्यवस्थितम् । षड्जे शे ऽपि तस्यैव ग्रहापन्यासत्वात्केवलाशुद्धतायां पूर्णतैवेत्यस्याः पूर्णतायां षडंशाः पाडवत्वे चत्वार इति मतङ्गोक्ता दशांशा वेदितव्याः । एवमवस्थाssपन्नांशसंख्या जात्यन्तरेष्वप्यूह्या । मूर्च्छना धैवतादिका ; अस्यां षाड्जप्रामिकतया धैवतादिकोत्तरायता मूर्च्छना, न तु मध्यमग्रामीणा पौर Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy