SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः क्रमादल्पाल्पतरते पाडवौडुवकारिणोः ॥ ५७ ॥ संपूर्णत्वदशायां स्तः पञ्चम्यां तु विपर्ययः । नेतच्प्रत्यये सतीत्यर्थः ॥ तत्संबन्धादिति। पञ्चस्वरमिदं गीतम् . तत्संबन्धात् , तच्छब्देनौडुवाः परामृश्यन्ते. तेषामोडुवानां संबन्धीति संबन्धमात्रविवक्षायाम् । तस्येदम् ' इत्यण्प्रत्यय औडुवमिति च विदुः ॥ ५४-५६-॥ (सु०) षाडवं लक्षयति-पडवन्तीति । षण्मिलित्वा ये प्रयोगं जात्यादिकमवन्ति रक्षन्ति, ते षडवा: स्वराः । षडवेषु जातं षाडवम् । जातार्थे ऽण्प्रत्ययः । औडुवं लक्षयति-वान्तीति । उडवो नक्षत्राणि वान्ति यान्त्यस्मिन्नित्यडवं व्योम । तच्च भूतेष पञ्चमम । तेन पञ्चसंख्या लक्ष्यते । औडुवी संख्या विद्यते येषां स्वराणां त औडुवाः पञ्च स्वराः । ते जाता यत्र गीते तदौडुवितमुच्यते । जातार्थ इतच्प्रत्ययः । तत्संबन्धात्पञ्चस्वरमौडुवं विदुर्बुधा भरतादयः ॥ ५४-५६- ॥ (क०) पूर्व द्विविधस्याप्यल्पत्वस्य सामान्येन प्रायो लोप्यविषयत्वमुक्त्वेदानीं तस्यैव कदाचिल्लोप्यविशेषव्यवस्थां दर्शयति—क्रमादिति । अल्पाल्पतरते, अल्पश्चाल्पतरश्वाल्पाल्पतरौ स्वरौ, तयोर्भावावल्पाल्पतरते ; अत्र द्वंद्वान्ते श्रुतस्य तलः प्रत्येकमभिसंवन्धो ऽल्पता ऽल्पतरता चेति ; अल्पता ऽनभ्यासः, अल्पतरता लड्नम् ; संपूर्णत्वदशायां यासां जातीनां संपूर्णत्वाद्यवस्थात्रयं संभवति, तासां संपूर्णत्वावस्थायामेव ते षाडवौडुवकारिणोः क्रमात्स्तः ; पाडवकारिणः स्वरस्याल्पता, औडुवकारिणः स्वरस्याल्पतरतेति प्रयोज्यं भवतः । यासां जातीनां तु संपूर्णत्वषाडवत्वाख्यावस्थाद्वयमेव, तासु षाडवकारिणो ऽल्पतैव. औडुवकारिणो ऽभावादल्पतरता न स्यात् ; यास्तु नित्यपूर्णास्तासु लोप्यस्वराभावादल्पत्वमनंशविषय मेवेत्यवगन्तव्यम् । अल्पत्वप्रयोगे कृतम्य नियमस्य क्वचिद्विधिना बाधं दर्शयति-पञ्चम्यां विति । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy