________________
१९४ संगीतरत्नाकरः
[जातिवचनं विधिरप्राप्ताविहाल्पत्वबहुत्वयोः ॥ ५८ ॥
परिसंख्या द्वयोः प्राप्तावेकस्यातिशयाय यत् । तुशब्दो ऽत्रेतरजातिवैलक्षण्यद्योतनार्थः । विपर्ययो ऽन्यथाभावः । एतदुक्तं भवति-अवस्थात्रयवत्याः पञ्चम्याः पूर्णत्वलक्षणे · सगमाः स्वल्पका मताः' इत्यनेन वक्ष्यमाणेन षड्जमध्यमयोरपाडवौडुवकारित्वादप्राप्तौ ‘क्रमाद्देन निगाभ्यां च षाडवौडविता मता' इति षाडवकारित्वाद्गांधारे प्राप्तौ च संभूय त्रयाणामल्पत्ववचनेन निषादे ऽप्यौडुवकारित्वेन बहुत्वस्य प्राप्तौ 'ऋषभपञ्चमनिषादा अपन्यासाः' इति बहुत्ववचनेन च नियमस्य बाधः, यथा 'प्राङ्मुखो ऽन्नानि भुञ्जीत' इत्यस्य लक्ष्मीव्रते ‘संपत्कामः पश्चिमाशामुखाशी' इत्येन वचनेन । ननु विषयव्यवस्थया सर्वजातिषु नियतस्याल्पत्वस्य पञ्चम्यां कथं विपर्यय इत्यत आह-वचनं विधिरिति । इह पञ्चम्यामल्पत्वबहुत्वयोः स्वरधर्मयोरप्राप्तौ ; अत्र षाडवौडवकारिणोः षड्जमध्यमयोरल्पत्वस्य, औडुवकारिणि निषादे बहुत्वम्य चाप्राप्तौ सत्याम् ; वचनम् , 'दौर्बल्यं चात्र विज्ञेयं षड्जगांधारमध्यमैः' इति षड्जमध्यमयोः साक्षादल्पत्वस्य, 'सनिषादावपन्यासौ' इत्यपन्यासलिङ्गेन निषादे बहुत्वस्य च भरतोक्तमेतद्वचनं विधिः ‘प्रातः संध्यामुपासीत' इति वचनवन् । विधीयते ऽनेनेति करणे ‘उपसर्गे घोः किः' इति किप्रत्यये सति विधिरिति रूपम् । ननु षड्जमध्यमयोरप्राप्तावल्पत्ववचनं निषादे ऽप्यप्राप्ती बहुत्ववचनं विधिरस्तु ; इह षाडवकारित्वेनाल्पत्वविषय गांधारप्राप्तौ सत्या. मपि पुनरल्पत्वविधानं किमितीत्याशयवानाह–परिसंख्येति । द्वयोः, इह पाडवौडुवकारिणोर्गोधारनिषादयोर्द्वयोः प्राप्तावल्पत्वधर्मितया प्राप्तौ सत्याम् , एकस्य तयोरेकस्य गांधारस्य, अतिशयाय रक्तिविशेषाय यदल्पत्ववचनम् , परिसंख्या, सा परिसंख्या भवतीत्यर्थः । यत्तदोः संबन्धस्य नित्यत्वादत्र
Scanned by Gitarth Ganga Research Institute