________________
१९२
संगीतरत्नाकर:
वान्ति यान्त्युडवो ऽत्रेति व्योमोक्तमुडुवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥ ५५ ॥ औडवी सा ऽस्ति येषां च स्वरास्ते त्वौडुवा मताः । ते संजाता यत्र गीते तदौडुवितमुच्यते ॥ ५६ ॥ तत्संबन्धादौडवं च पञ्चखरमिदं विदुः ।
[जाति
'अव रक्षणे' इत्यस्मात्पचाद्यच्यवा इति रूपम् । षट् च ते वाश्चेति कर्मधारयः । तेषु षडवेषु जातत्वात्षट्स्वरं गीतं षाडवमुच्यत इति योजना | तेषु जातत्वादित्यनेन षडवशब्दात् ' तत्र जातः' इत्यणि पाडवमिति रूपम् । अयमर्थ:-सप्तसु स्वरेषु लक्षणवशादेकस्मिंस्त्यक्ते, तदितरषट्स्वर प्रयोगप्रपञ्चवशाज्जातं गीतं षाडवव्यपदेशवदिति ॥ अथौडुवितम् - वान्तीति । यान्तीति वा गतिगन्धनयो:' इत्यस्मान्निप्पन्नस्य वान्तीत्यस्यैव गत्यर्थतोक्तिः । अत्रोडवो नक्षत्राणि वान्ति गच्छन्तीति वाघातो: 'सुपि स्थः ' इत्यत्र सुपीति योगविभागात्कप्रत्यय उडवमिति व्योमाकाशमुक्तम् । तच्चोडुवं भूतेषु पृथिव्यादिमहाभूतेषु गुणबाहुल्येनाभ्यर्हितत्वात्सृष्टिक्रमप्रातिलोम्येन पृथिव्यादिपरिगणनायां पञ्चमं पृथिव्यप्तेजोवाय्वाकाशानीति । पञ्चसंख्या पञ्चचेति संख्या तदुद्भवा तदुद्भवद्रव्याश्रिता सत्यौडुवीत्युच्यते । उडुवशब्दात् ' तत्र जात : ' इत्यणि स्त्रियाम् ' टिड्ढाणञ्' इत्यादिना ङीपि रूपमित्यर्थः । सा चौडुवी संख्या येषां तत्र तत्र नियतम्वरद्वयलोपे सत्यवशिष्टानां प्रयोगप्रवर्तकानां स्वराणामस्ति, ते तु पञ्च स्वरा औडुवा मताः । तदस्यास्तीत्यस्मिन्नर्थे शैषिके ऽणि सतीत्यर्थः । जातं त्विति तुशब्देन येषामिति यच्छन्दतात्पर्येणोक्ता एव, न तु संपूर्ण घाडवे वा शते पञ्चाशन्नयायेन यथाकथंचित्संभवन्तः पञ्चापीति गम्यते । त औडुवा यत्र गीते संजातास्तगीत मौडुवितमुच्यते । औडुवशब्दात् ' तदस्य संजातम् -' इत्यादि
Scanned by Gitarth Ganga Research Institute