________________
१९१
प्रकरणम् ७] प्रथमः स्वग्गताध्यायः
न्यासादिस्थानमुज्झित्वा मध्ये मध्ये ऽल्पतायुजाम् ।। स्वराणां या विचित्रत्वकारिण्यंशादिसंगतिः ॥ ५२ ।। अनभ्यासः कचित्कापि लङ्घनैरेव केवलैः।। कृता सा ऽन्तरमार्गः स्यात्सायो विकृतजातिषु ॥ ५३ ।। पडवन्ति प्रयोगं ये स्वरास्ते पाडवा मताः ।
पट्स्वरं तेषु जातत्वाद्गीतं पाडवमुच्यते ॥ ५४॥ माह-ईषस्पर्श इति । सकृदुच्चारणं लङ्घनम् । तत्प्रायो लोप्येषु स्वरेषु भवेत् । अंशस्वरादन्येष्वपि स्वरेषु लङ्घनं भवतीति केषांचिन्मतम् ॥ ४७-५१ ॥
(क०) अथान्तरमार्गः---न्यासादिस्थानमिति । न्यासादिस्थानम् , न्यासादीनां न्यासापन्यासविन्याससंन्यासग्रहांशानां स्थानं गीतस्यान्त्यप्रदेशाद्युज्झित्वा विहाय । मध्ये मध्य इति मध्यानां बहुत्वाद्वीप्सायां द्विर्वचनम् । तेनोक्तन्यासादीनां द्वयोर्द्वयोर्मध्य इत्युक्तं भवति । तत्राल्पतायुजामुक्तद्विविधाल्पत्वभाजां स्वराणां या इंशादिसंगतिः , अंशग्रहापन्यासादिभिः सह संगतिरारोहादिना संघटना विचित्रत्वकारिणी स्वरसमुदायात्मकतानवैचित्र्यकारिणी भवति, क्वचित्केवलैरनभ्यासैः क्वापि लङ्घनैरेव तत्तद्गीतरक्तिवशात्कृतोत्पादिता सा ऽन्तरमार्गः स्यात् । सो ऽपि विकृतजातिपु प्रायः स्यात् ; शुद्धजातिषु तु कादाचित्क इत्यर्थः ॥ ५१, ५३ ॥
(सु०) अन्तरमार्ग लक्षयति-न्यासादीति । न्यासापन्यासविन्याससंन्यासग्रहांशस्थानं परित्यज्य मध्ये मध्ये ऽल्पानां स्वराणां भङ्गिविशेषकारिणी कचिदनभ्यासैः कचित्केवलैर्लङ्घनैरेव या विहिता इंशादिभिः सह संगतिः सा ऽन्तरमार्ग इत्युच्यते । सा प्रायशो या विकृता जातयस्तन्निष्ठैव भवति ॥५२, ५३॥
(क०) अथ षाडवम्-पडवन्तीति । ये षट् स्वराः शुद्धा विकृता वा प्रयोगं जात्यादिकमवन्ति रक्षन्ति, प्रवर्तयन्तीत्यर्थः ; ते स्वराः षडवाः ।
Scanned by Gitarth Ganga Research Institute