SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९० संगीतरत्नाकरः [जाति___ अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्घनात् ।। अनभ्यासस्त्वनंशेषु प्रायो लोप्येष्वपीष्यते ॥ ५० ॥ ईपत्स्पर्शो लङ्घनं स्यात्प्रायस्तल्लोप्यगोचरम् । उशन्ति तदनंशे ऽपि कचिद्गीतविशारदाः ।। ५१ ॥ तदभावो ऽलङ्घनम् ; साकल्येन स्पर्श इति यावत् । इदमेकं बहुत्वम् । अभ्यासादावृत्तेः । नैरन्तर्येण वा सान्तरत्वेन वा स्वरस्य पुनः पुनरुच्चारणमावृत्तिः । इदमन्यद्बहुत्वम् । तच्च द्विविधं बहुत्वं पर्यायांशे वादिभूतांशाद्वयतिरिक्तांशे, वादिसंवादिनोरपि स्थितम् , प्रयोक्तव्यमिति शेषः । अथाल्पत्वम् --- अल्पत्वं चेति । अनभ्यासाच्च लङ्घनादिति बहुत्वोक्तलक्षणविपर्ययः । अनभ्यासस्तु, आवृत्त्यभावेन सकृदुच्चारणरूपमल्पत्वं तु, अनंशेषु वादिपर्यायांशोभयव्यतिरिक्तेषु स्वरेप्विप्यते ; लोप्येप्वपि पाडवौडवकारिषु च प्राय इप्यते ; प्राचुर्येण भवतीत्यर्थः ॥ ईषत्स्पर्श इति ग्रन्थस्तु विवृतार्थः ॥ ४७---५१ ॥ (सु०) संन्यासं लक्षयति-अंशाविवादीति | यः स्वरो ऽशेन सहाविवादी सन्गीतस्याद्यां विदारी समापयति स संन्यासः । मतङ्गेनाप्युक्तम्-- 'अंशस्य विवादी यो न भवति स प्रथमविदार्यामन्ते यदि प्रयुक्तो भवति तदा संन्यास इत्युच्यते' इति । विन्यासं लक्षयति-अंशाविवाद्येवेति-अंशेन सहाविवाद्येव यः स्वरो विदार्यशरूपाणां पदानामन्ते तिष्ठति स विन्यासस्वरः । मतङ्गेनाप्युक्तम्-'एष एव तु संन्यासस्वरो यदा पदान्ते विन्यस्यते तदा विन्यासः; अत एवांशस्य संवाद्यनवादी वा पदविदार्यन्ते भवतीत्यक्तम् ।' इति । बहुत्वं कथयति-अलङ्घनादिति । अन्यस्पर्शादभ्यासाच्च बहुत्वं द्विविधम । तच बहुत्वं वादिसंवादिनोः पर्यायः । अलङ्घनाद्यस्य बहुत्वं स वादी ; तद्यस्याभ्यासात्स संवादीत्यर्थः । अल्पत्वं चेति । अल्पत्वमध्यनभ्यासालङ्घनाच द्विप्रकारम् । अनभ्यासस्त्वंशस्वरादन्येषु स्वरेषु क्वचिल्लोप्येश्वपीध्यते भरतादिमिः । लङ्घनादल्पत्वमित्युक्तम् ; तत्र किमिदं लङ्घनमित्यपेक्षाया Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy