________________
प्रकरणम् ७ ]
प्रथमः स्वरगताध्यायः
अंशाविवादी गीतस्याद्यविदारीसमाप्तिकृत् ॥ ४७ ॥ संन्यासो ऽंशाविवाद्येव विन्यासः स तु कथ्यते । यो विदारीभागरूपपदान्ते ऽवतिष्ठते ॥ ४८ ॥ अलङ्घनात्तथा ऽभ्यासाद्बहुत्वं द्विविधं मतम् । पर्यायांशे स्थितं तच्च वादिसंवादिनोरपि ॥ ४९ ॥
१८९
गीतं प्रतिभासते सो ऽपन्यासः । स च विदारीमध्ये भवति । गीतशरीरमध्य इत्यर्थ: । ' इति । अपन्यासान्परिगणयति - कार्मारभ्यामिति । कार्मारवीनैषाद्यान्ध्रीमध्यमाऽऽर्पभीणामंशा एवापन्यासाः । षड्जोदीच्यवागांधारोदीच्यवामध्यमोदीच्यवानां षड्जधैवतावपन्यासौ । रक्तगांधार्या मध्यमः । गांधार्थी षड्जमध्यमौ । षड्जकैशिक्यां षड्जपञ्चमनिषादाः । पञ्चम्यां निषादर्षभपञ्चमाः । गांधारपञ्चम्यामृषभपञ्चमौ । षाड्ज्यां गांधारपञ्चमौ । धैवत्यामृषभमध्यमधैवताः । नन्दयन्त्यां मध्यमपञ्चमौ । कैशिक्यामृषभवर्जिताः षट् स्वरा अपन्यासाः । सप्तापि स्वरा इति केषांचिन्मतम् । षड्जमध्यमायां सप्त स्वरा: । अत्रांशा एवापन्यासाः । त एकोनविंशतिः । अन्ये सप्तत्रिंशत् । मिलिताः षट्पञ्चाशत् । यदि कैशिक्यां सप्तापन्यासास्तदा सप्तपञ्चाशदपन्यासस्वरा भवन्ति ॥ ४१-४६-॥
I
(क०) अथ संन्यास विन्यासौ – अंशाविवादी, यस्मिन्प्रयोगे यो Sशस्तस्याविरोधी संवादीत्यर्थः । गीतस्याद्यविदारीसमाप्तिकृत्प्रथमखण्डसमापकः । अनेनापन्यासस्यातिरिक्त विदारीविषयत्वं विज्ञेयम् । विन्यासः स तु कथ्यते । स इति वक्ष्यमाणपरामर्शः । अंशाविवादित्वमुक्तमेव । विदारीभागरूपपदप्रान्ते, विदार्या भागरूपाणि वर्णालंकारादियुक्तस्य रागस्य वाक्यस्थानीयस्यावयवभूतानि पदवत्पदानि तेषां स्वरसमुदायात्मनां प्रान्ते यो ऽवतिष्ठत इति संबन्धः । विवादिव्यतिरिक्तानां सर्वेषामपि स्वराणां संन्यास विन्यासत्वसंभवेन बहुत्वादेतयोः संख्या नोक्ता ॥ अथ बहुत्वम् - अलङ्घनादिति । लङ्घनमीषत्स्पर्शः स्वरस्य स्थानप्रयत्नकृतस्वरूपन्यूनता ;
Scanned by Gitarth Ganga Research Institute