________________
१८८
संगीतरत्नाकरः
जातिअपन्यासस्वरः स स्याद्यो विदारीसमापकः । कार्मारव्यां च नैपाद्यामान्ध्रीमध्यमयोस्तथा ॥ ४१॥ आर्षभ्यां च स्वरा ये शास्ते ऽपन्यासाः प्रकीर्तिताः । उदीच्यवानां त्रितये ऽपन्यासौ षड्जधैवतौ ॥ ४२ ।। मध्यमो रक्तगांधार्या गांधार्या पड्जपश्चमौ । सनिपाः षड्जकैशिक्यां पञ्चम्यां निरिपाः स्मृताः ॥ ४३ ॥ रिपौ गांधारपञ्चम्यां पाड्ज्यां गांधारपञ्चमौ। धैवत्यां रिमधाः प्रोक्ता नन्दयन्त्यां मपो मतौ ॥४४॥ रिवाः षट् च कैशिक्यां सप्तापीत्युचिरे परे । सप्तखरापन्यासां तु भाषन्ते पड़जमध्यमाम् ॥ ४५ ॥ अत्र ये ऽन्त्या अपन्यासास्ते स्युरेकोनविंशतिः । सप्तत्रिंशत्परे ते च षट्पञ्चाशत्तु संयुताः ॥ ४६॥
कैशिक्यां सप्तपक्षे तान्सप्तपञ्चाशतं विदुः । षड्जोदीच्यवागांधारोदीच्यवामध्यमोदीच्यवानां मध्यमो न्यासः । कैशिक्या निषादपञ्चमगांधाराः । कार्मारव्याः पञ्चमः । अवशिष्टानां पञ्चानां गांधारो न्यासः । एवमेकविंशतिनासा: ॥ ३९, ४० ॥
(क०) अथापन्यासः--अपन्यासस्वरः स स्यादित्यादिना सप्तपञ्चाशतं विदुरित्यन्तेन निरूपितः स्पष्ट: । अपन्यस्यते प्रयोगो यनेत्यपन्यासः। अपन्यसनं च न्यासत्वापगमे त्ववान्तरविच्छेदकारित्वान्नयासवप्रतिभासनम् ॥ ४१-४६- ॥
(सु०) अपन्यासं लक्षयति-अपन्यास इति । यः स्वरो विदार्या गीतावयवस्य समापकः सो ऽपन्यासः । मतङ्गेनाप्युक्तम्-'यत्र समाप्तमिव
Scanned by Gitarth Ganga Research Institute