________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः
षाड्ज्यादीनां तु सप्तानां न्यासः स्यान्नामकृत्स्वरः । aौ नामकारिणौ षड्जमध्यमायां तु तौ मतौ ॥ ३९ ॥ उदीच्यवात्रयं मान्तं निपगान्ता तु कैशिकी | कारवी पञ्चमान्ता गान्ताः पञ्चापराः स्मृताः ॥ ४० ॥
१८७
वा प्रवर्तमानत्वम् । 'मदी हर्षे ' इत्यस्माण्णिजन्तान्मदयतीति कर्तरि रप्रत्यये रूपम् । हृद्यस्य ध्वनेर्मन्द्र इति संज्ञा ॥ अथ न्यासः -- - गीते समाप्तिकृदिति । गीते जात्यादिप्रयोगे समाप्तिकृन्निरपेक्षावसानकारी स्वरो न्यासः, न्यस्यते त्यज्यते येन गीतमिति करणे घञि न्याससंज्ञकः । स चाष्टादशसु जातिष्वेकविंशतिधा वक्ष्यमाणप्रकारेण ॥ ३७, ३८ ॥
(सु० ) मन्द्रं निरूपयति — मध्यस्थानेति । मन्द्रस्थानस्थितादंशस्वरान्मन्द्रांशस्वरपर्यन्तमवरोहणं कर्तव्यम्, मन्द्रन्यासस्वरपर्यन्तं वा, मन्द्रस्थानस्थभधैवतपर्यन्तं वेति पक्षत्रयम् । एषा मन्द्रगतेः परा काष्टोक्ता । अर्वाक्तु स्वेच्छया मन्दगतिः । न्यासलक्षणं कथयति — गीत इति । यस्तु गीतसमापको गीतस्य जात्यादेरन्ते तिष्ठति स न्यास इत्युच्यते । न्यस्यते व्यज्यते यस्मिन्येन वा गीतमिति स न्यासः । स चैकविंशतिप्रकारो भवति ॥ ३७, ३८ ॥
(क०) तदेव विवृणोति - षाड्ज्यादीनामित्यादिना । सप्तानां शुद्धानां विकृतभेदैश्च सहितानां नामकृदिति, षाड्ज्यां षड्ज आर्षभ्यामृषभ इत्येवम् । नान्य इति तुशब्दार्थः । उदीच्यवात्रयमिति । षड्जोदीच्या गांधारोदीच्यवा मध्यमोदीच्यवा च त्रिकं मान्तं मध्यमन्यासकम् । अपराः पञ्च षड्जकैशिकी रक्तगांधारी गांधारपञ्चम्यान्ध्री नन्दयन्ती चेति । स्मृताः, भरतादिभिरिति शेषः ॥ ३९, ४० ॥
(सु०) एकविंशतिप्रकार तामेव विशदयति — षाड्ज्यादीनामिति । षाड्ज्यादीनां सप्तानां नामस्वराः सप्त न्यासाः । षड्जमध्यमायाः षड्जमध्यमौ न्यासौ ।
Scanned by Gitarth Ganga Research Institute