________________
[जाति
१८६
संगीतग्नाकरः मध्यस्थानस्थितादंशादामन्द्रस्थांशमात्रजेत् । आमन्द्रन्यासमथ वा तदधःस्थरिधावपि ॥ ३७॥ एषा मन्द्रगतः सीमा ततो ऽक्किामचारिता। . गीते समाप्तिकृन्नयास एकविंशतिधा च सः ॥ ३८ ॥
(क०) मध्यस्थानस्थितादिति । अंशाद् प्रामापेक्षया षड्जाद्वा मध्यमाद्वा । अत्रापि ल्यब्लोपे पञ्चमी-अंशमारभ्येति । आमन्द्रस्थांशं यथाग्रामं मन्द्रस्थानस्थितषड्जपर्यन्तं तादृशमध्यमपर्यन्तं वा । आङत्राभिविधौ । आव्रजेदागच्छेत् । अनेन मध्यस्थानस्थितस्यांशस्य प्रायेण प्रारम्भो गम्यते । जातिप्रयोगे षड्जमन्द्रव्यवस्थायामयमेकः पक्षः । अथ वा, आमन्द्रन्यासं मन्द्रस्थानस्थितन्यासस्वरपर्यन्तम् । आङभिविधौ । अत्र न्यासशब्देन ग्रामयोरन्तिमौ गांधारनिषादौ विवक्षितौ, न तु जात्यादिगीतसमापकः । तौ च व्यत्यासेन पाड्जयामिके प्रयोगे मन्द्रगांधारो न्यासः, माध्यमग्रामिके प्रयोगे मन्द्रनिषादो न्यास इति ग्रामयोर्मन्द्रावधी भवतः । अत्र लिङ्गं षड्जग्रामीणया ऽपि षड्जकैशिक्या मन्द्रगांधारस्य न्यासत्वदर्शन मिति द्वितीयः पक्षः । तदधःस्थरिधावपीति तृतीयः पक्षः । अत्रापिशब्दो विकल्पार्थो रिधौ वेति । तच्छब्देन ग्रामन्यासतया विवक्षितौ गांधारनिषादौ परामृश्यते । तयोरधःस्थौ रिधावित्यनेन क्रमेण ग्रामविवक्षया न्यासयोर्व्यत्यास एव दर्शितः । यथोक्तं भरतेन---" त्रिधा मन्द्रगतिरंशपरा न्यासपरा ऽपन्यासपरा चेति ।
मन्द्रस्त्वंशात्परो नास्ति न्यासे तु द्वौ व्यवस्थितौ ।
गांधारन्यासलिङ्गेन दृष्टमृषभसेवनम् ॥" इति । एषा पक्षत्रये ऽन्यतमाश्रया मन्द्रगतर्मन्द्रस्थम्वरावरोहस्य सीमा ऽवधिः । तत उक्तावधेराङ न्यूनतायां कामचारिता गातुरिच्छया ऽशक्त्या
Scanned by Gitarth Ganga Research Institute