________________
प्रकरणम् ७] प्रथमः स्वागताध्यायः
१८५ षड्जात्तारषड्जपर्यन्तमारोहः प्रकीर्तितो भरतादिभिरित्यर्थः । यथा ऽऽह भरत:--
'तारगत्या तु षड्जं च कदाचिन्नातिवर्तते' इति । तत्पूर्वावधित्वे त्वातारषड्जं तारषङ्जमारभ्यारोहः सामान्यतः प्राप्तचतुर्थस्वरारोहः । सामान्यतः प्रकीर्तितो रुद्रटादिभिरित्यर्थः । यथा यावत्षड्जमेव तारगतिमध्यमस्याप्यत्र संवादित्वादनाशित्वाच्च तारगती रुद्रटेन कृता मध्यमस्येति न दोष इति मतङ्गोक्तम् । अयमाशयः–नन्दयन्त्या हृप्यकामूर्च्छनाऽन्वितत्वेन पञ्चमांशत्वान्मन्द्रव्यापकत्वेन तारगतेः संकोचस्त्वाचार्यैः कृत इति । सामान्या तारव्यवस्था तु भरतोक्ता । यथा
'अंशात्तारगति विद्यादा चतुर्थस्वरादिह ।
आ पञ्चमात्सप्तमाद्वा नातः परमिहेप्यते ॥' इति । तरतेर्णिजन्तात्तार्यत इति कर्मणि घञि दूरश्राव्यस्य मूर्धन्यस्य ध्वनेस्तार इति संज्ञा ॥ ३५, ३६ ॥
(सु०) तारलक्षणं कथयति--मध्यम इति । मध्यसप्तकस्थितो यो इंशस्वरः, तस्मादेव तारस्थिताच्चतुःस्वरपर्यन्तमारोहणं कर्तव्यम् । अयमारोहे परो ऽवधिरुक्तः । ततः परमारोहणं न कर्तव्यम् । अक्तुि स्वेच्छया तारगतिः । तारे लुप्तो ऽपि स्वरो ग्राह्यः । भरतेन चतुर्थपञ्चमसप्तमस्वरपर्यन्तं तारगतिरुक्ता । यदाह
'अंशात्तारगति विद्यादा चतुर्थस्वरादिह ।
आ पञ्चमात्सप्तमाद्वा नातः परमिहेश्यते ॥' इति । आतारेति । नन्दयन्त्यां तारषड्जपर्यन्तमेवारोहणं कर्तव्यम् । पूर्वोक्तस्यायमपवाद: ।। ३५, ३६ ॥
24
Scanned by Gitarth Ganga Research Institute