SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८४ संगीतरत्नाकरः मध्यमे सप्तकेशः स्यात्तस्मात्तारस्थितात्परान् । स्वरांश्चतुर आरोहेदेष तारावधिः परः ।। ३५ ।। अर्वाक् कामचारः स्यात्तारे लुप्तो ऽपि गण्यते । आतारपद्जमारोहो नन्दयन्त्यां प्रकीर्तितः ।। ३६ ।। [जाति (क० ) अथ तारव्यवस्थामाह-ह - मध्यमे सप्तके ऽंशः स्यादिति । मध्यमे सप्तके, मध्यस्थानस्थितेषु षड्जादिपु सप्तसु स्वरेध्वित्यर्थः । अंशः स्यात्, षड्जमध्यमग्रामयोः प्राधान्यात्प्राबल्याच्च यस्मिन्प्रामे यश्चतुःश्रुतिको ऽंशः षड्जो वा मध्यमो वा भवेत् । तारस्थिताद् द्विगुणात्तस्मात् षड्जाद्वा मध्यमाद्वा परांश्चतुरः स्वरान् । मध्यमग्रामे तावत्तस्मादिति तारमध्यमपरामर्शे तस्मादिति ल्यब्लोपे पञ्चमी । तमारभ्येत्यर्थः । तेन सह परांश्चतुरो मपधनीना रोहेदित्यर्थः । षड्जग्रामे तु तस्मादिति तारषड्जपरामर्शे तस्मादित्यवधौ पञ्चमी । ततः परांश्चतुरः स्वरान्रिगमपानारोहेदिति । एप तारावधिः, एष उक्तप्रकारस्तारावधिः । परो निरतिशयः । कुतः ? मध्यमग्रामे तारनिषादात्परस्य स्वरस्यासंभवादेव ; पड्जग्रामे तु तारपञ्चमात्परयोधैवत निषादयोः संभवे, शक्तौ च सत्यामपि तत्र प्रयोगे रक्तेरभावादिति ॥ अर्वाक्त्वति । अर्वाङ् न्यूनतारावधित्वेनोक्तयोर्निषादपञ्चमयोरधस्तात्तारे स्थितेषु यस्य कस्यचिदवधित्वे तु कामचारः, गातुरशक्तयेच्छया वा प्रवर्तनम् । तारे लुप्तो ऽपि गण्यत इति । तारे तारव्यवस्थाविषये । चतुर आरोहेदित्यत्र चतुर्षु मध्ये प्रयोगलक्षणवशादेकस्य स्वरस्य लोपे सत्यप्यारोहगणनायां सोऽपि गृह्यते । नन्दयन्त्या जातेरपि मध्यमग्रामीणत्वात्तारव्यवस्थायां चतुः स्वरारोहे तारमध्यमस्य प्रारम्भावधित्वे प्राप्ते, तदपवादत्वेन तारषड्जस्य भरतादिमतात्परावधित्वं रुद्रटादिमतात्पूर्वावधित्वं च विहितमित्यभिसंधाय तन्त्रेणाह – आतारषड्जमिति । परावधित्व आ तार Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy