________________
प्रकरणम् ७ ]
प्रथमः स्वरगताध्यायः
१८३
इति । नन्वंशो ग्रह इति भरतादेशेन सर्वेष्वप्यंशधर्मेषु ग्रहस्य प्राप्तेषु ग्रहांशयोः को विशेष इति चेत्, उच्यते – ग्रहस्यांशातिदेशतस्तु प्राप्तं न केवलं वादित्वमेव धर्मः, अपि तु वादित्वादिचतुष्टयमपीति तयोर्भेद इति । यथोक्तं मतङ्गेन' अंशो वाद्येव परं ग्रहस्तु वाद्यादिभेदभिन्नश्च - तुर्विध:' इति ॥ दशानामपि लक्षणानां सप्तषष्टिरूपत्वाद्बहुलत्वमेवांशस्य नियतं लक्षणमित्याह - बहुलत्वमिति । प्रयोगे बहुलत्वं व्यापक मंशलक्षणमिति संबन्धः | व्यापकमिति । यो ऽंश: स बहुल इत्यविना
भावात् ॥ २९-३४ ॥
(सु० ) त्रयोदशविधं जातिलक्षणं विभजते- ग्रहांशेति । षाडवौडुविते वापीति । याः कार्मारव्यादयश्चतत्रो नित्यपूर्णास्ता विहायेत्यर्थः । ग्रहलक्षणं कथयति - गीतादीति । गीतस्य जात्यादेरादौ यः स्वरः प्रयुज्यते स ग्रह इत्युच्यते । तत्रेति । तत्र ' यः स्वरो ऽंशः स एव ग्रहः' इति नियमादंशग्रहयोरेकोक्तावुभयं लभ्यते । नन्वेवं तर्हि ग्रहांशयोः को भेदः ? उच्यतेअंशो वाद्येव परम्; ग्रहस्तु वाद्यादिभेदभिन्नश्चतुर्विध: ; अंशश्च रागजनकत्वात्प्रधानम् ; ग्रहस्त्वप्रधानमिति तयोर्भेदः ॥ ६९ - ३१ ॥ अंशलक्षणं कथयति-यो रक्तिव्यञ्जक इति । यो गीते रञ्जकत्वं व्यनक्ति, यस्य संवाद्यनुवादी च विदार्या बहुल: । ननु विदारीशब्देन किमुच्यते ? विदार्यते खण्ड्यते गीतं पदं वा यया सा विदारी । सा द्विविधा गीतविदारी पदविदारी चेति । सा विशेषेण तालाध्याये निरूपयिष्यते । यमवधिं कृत्वा मन्द्रतारव्यवस्था, यो वा यस्य संवाद्यनुवादी वा न्यासत्वमपन्यासत्वं विन्यासत्वं संन्यासत्वं ग्रहत्वं च प्राप्नोति यस्य जात्यादिप्रयोगे बाहुल्यं संवाद्यंशश्चेत्युच्यते । योग्यतावशादिति । प्राधान्याद्वादिशब्दवाच्यत्वमन्यैर्लक्षणैरंशशब्दवाच्यत्वमिति । प्रयोगे बाहुल्यमेव मुख्यं लक्षणमंशस्येति कथयति — बहुलत्वमिति । ननु कथमस्यांशशब्दवाच्यत्वम् ? अंशशब्देन भाग उच्यते ; अयमपि जातिरागादिविभागकारित्वादंशशब्देनोच्यते, कारणे कार्यवदुपचारात् ॥ ३२ -- ३४ ॥
Scanned by Gitarth Ganga Research Institute