________________
१८२
संगीतरत्नाकर:
[जाति
मतङ्गेनापि सो ऽंशवत्त्रिषष्टिभेदभिन्नो बोद्धव्यः' इति ॥ यो रक्तीत्याद्यैशलक्षणम् । रक्तिव्यञ्जकत्वादिधर्मयुक्तो यः स्वरः स संगीत भागत्वादेश इति व्यपदिश्यते गेये । रक्तिव्यञ्जक इत्येतावत्युच्यमाने स्वरगतरक्तिमात्रव्यञ्जकत्वं स्वरान्तराणामध्यविशिष्टमितीह स्वरसंदर्भभेदप्रतिनियतरक्तिविशेषव्यञ्जकत्वस्य विवक्षितत्वाद्द्वेय इति विशेषणं यथा वाक्यार्थभूतरसादिव्यञ्जकत्वं विवक्षितान्यपरवाच्ये ऽसंलक्ष्यक्रमध्वनौ स्वार्थमभिदधतः पदस्य । यत्संवाद्यनुवादिनौ | यस्यांशत्वेन लिलक्षयिषितस्य' स्वरस्य । अस्मिलक्षणे प्रतिवाक्यं यच्छब्दो विधेयांशस्वरपरः । संवाद्यनुवादिनौ पूर्वोक्तलक्षणौ स्वरौ विदार्थी गीतखण्डे बहुलौ प्रचुरप्रयोगौ ; यस्मात्तारमन्द्रव्यवस्थितिः, यमवधिं कृत्वोत्तरस्वरारोहेण तारव्यवस्था ऽधस्तनस्वरावरोहेण मन्द्रव्यवस्था च भवति ; यः स्वयं यस्य संवादी, यस्य वादिव्यपदेशवतः स्वस्य स्वयमेव कदाचित्संवादी च भवति; अत्र चकार एवार्थः संवाद्येवेति ; अनुवादी स्वरो ऽपरः, यस्यानुवादी त्वपर एव स्वरो भवति, न कदाचिदपि स्वस्य स्वयमनुवादीत्यर्थः ; यथा लोके राजा प्रयोजनवशात्कचिदमात्यकृत्यकारी भवति न कदाचिदपि भृत्यकृत्यकारी, तद्वत्; यश्च न्यासापन्यासबिन्याससंन्यासग्रहतां गतः सन्प्रयोगे बहुलो भवति ; तस्य न्यासादिरूपापत्तिः प्रयोगबाहुल्ये हेतु:, स वादी योग्यतावशादेशः स्यात् । योग्यता नामात्र यथायोगं रक्तिव्यञ्जकत्वाद्युक्तलक्षणार्हत्वम् । तथा ऽऽह भरतः -
'रागश्च यस्मिन्वसति यस्माच्चैव प्रवर्तते । नेता च तारमन्द्राणां यो ऽत्यर्थमुपलभ्यते ॥ ग्रहापन्यासविन्याससंन्यासन्यासयोगतः । अनुवृत्तश्च यश्चेह सो ऽंशः स्याद्दशलक्षणः ॥ '
विवक्षितस्य.
Scanned by Gitarth Ganga Research Institute