SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रथमः स्वरगताध्यायः १८१ प्रकरणम् ७] गीतादिनिहितस्तत्र स्वरो ग्रह इतीरितः । तत्रांशग्रहयोरन्यतरोक्तावुभयग्रहः ॥ ३१ ॥ यो रक्तिव्यञ्जको गेये यत्संवाद्यनुवादिनौ । विदार्या बहुलौ यस्मात्तारमन्द्रव्यवस्थितिः ॥ ३२ ॥ यः स्वयं यस्य संवादी चानुवादी स्वरो ऽपरः । न्यासापन्यासविन्याससंन्यासग्रहतां गतः ॥ ३३ ॥ प्रयोगे वहुलः स स्याद्वाद्यशो योग्यतावशात् । बहुलत्वं प्रयोगेषु व्यापकं त्वंशलक्षणम् ।। ३४ ॥ वानामन्योन्यसंघटनात्मकस्यांशादिसंबन्धाधीनसिद्धेः पृथगुद्देशो नापेक्षित इति दशकं जातिलक्षण मित्युक्तम् , तथा ऽपि संन्यासविन्यासयोः पृथगवयवत्वेनान्तरमार्गस्य तु सत्स्वंशादिप्ववयवेषु तेन विना प्रयोगासिद्धेस्तस्यावश्यिकत्वाल्लक्षणेपु पृथगुद्दिश्य त्रयोदशेत्युक्तं ग्रन्थकारेण ॥ गीतादिनिहित इति । तत्र तेषु त्रयोदशसु मध्ये, गीतादिनिहितः, गीतस्य रञ्जकस्वरसंदर्भस्यादावुपक्रमे निहितः । गृहीत इति येन गीतं गृह्यत इति वा ग्रहः । तत्रांशग्रहयोरित्यत्र तत्रेति गीतगानलक्षण इत्यर्थः । अंशग्रहयोरन्यतरोक्तौ, यत्र क्वचिदंश एवोच्यते न ग्रहः, यत्र च ग्रह एवोच्यते न त्वंशः, तत्रोभयग्रह उभयोर्ग्रहांशयोHहो ग्रहणं भवति । अयमर्थः --यत्र गीतलक्षणे यस्य स्वरस्यांशत्वमुक्तं नान्यस्य ग्रहत्वं तत्र तस्यैव ग्रहत्वमप्युक्तम् , यस्य च ग्रहत्वमुक्तं नान्यस्यांशत्वं तत्रापि तस्यैवांशत्वमप्युक्तमिति । एतेनैतदुक्तं भवति–यस्यां जातौ ये यावन्तो ऽशास्तत्र ते तावन्त एव ग्रहा इति । सर्वासु जातिपु ग्रहा अपि त्रिषष्टिरित्यर्थः । तथा चोक्तं भरतेन 'त्रिषष्टिरंशा विज्ञेयास्तासां चैवांशवद् ग्रहाः' इति । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy