SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८० संगीतरत्नाकरः [जातिग्रहांशतारमन्द्राश्च न्यासापन्यासको तथा । अपि संन्यासविन्यासौ बहुत्वं चाल्पता ततः ॥ २९ ॥ एतान्यन्तरमार्गेण सह लक्ष्माणि जातिपु । पाडवौडुविते कापीत्येवमाहुस्त्रयोदश ॥ ३० ॥ मतङ्गेन--- "योज्याः सप्ताधिकास्ते च चत्वारिंशच्च षाडवे | अस्यार्थः-घाडवविधौ क्रियमाणे सप्तचत्वारिंशदंशा भवन्ति । कथम्? चतसृणां जातीनां नित्यपूर्णानां नवांशाः पातनीयास्त्रिषष्टिमध्ये । एषु नवांशेषु पातितेषु चतुष्पञ्चाशदंशा अवशिष्यन्ते । तत्रापि षड्जमध्यमा षाड्जी षड्जोदीच्यवा कैशिकी रक्तगांधारीत्यासां सप्तांशा अपवादभूताः पातनीयाः । तेषु सप्तांशेषु पातितेषु सप्तचत्वारिंशदंशा भवन्ति।" इति । औडुवविधौ तु त्रिंशदंशा भवन्ति । तदुक्तं मतङ्गेन-"तथा ऽपवादनिर्मुक्तास्त्रिंशदौडुविते तु ते । अस्यार्थः" पूर्ववत् । षोडशसु पातितेषु नित्यपूर्णपाडवानां द्वादश पातनीयाः । अन्ये चापवादभूताः पञ्च । एवं त्रिंशदौडुविते ते इंशा भवन्ति । तथा चाह भरत: 'पञ्चस्वरमौडुवितं विज्ञेयं दशविधप्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं तस्य ।' इति । अपकृष्टध्रुवासु जातीनां चतुःस्वरप्रयोगो ऽप्युक्तो भरतेन--- 'षट्स्वरस्य प्रयोगो ऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगो ऽपि ह्यपकृष्टध्रुवास्वथ ॥' इति ॥-२४-२८ ।। (क०) अथ त्रयोदशविधं जातिलक्ष्म' इत्युद्देशे लक्ष्यत्वेनोपात्तजातिनिरूपणावसरे तदवयवत्वेन च प्राप्तांस्त्रयोदशापि ग्रहादीन्विभज्य क्रमेण लक्षयति--ग्रहांशतारमन्द्राश्चेत्यादिना । पाडवौडुविते कापीति । नित्यपूर्णाभ्यो ऽन्यासु यथायोगमित्यर्थः । यद्यपि भरतमतङ्गादिभिः संन्यासविन्यासयोर्विदार्याश्रितत्वादपन्यासे ऽन्तर्भावणान्तरमार्गस्याप्यंशाद्यवय Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy