SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १७७ प्रकरणम् ७] प्रथमः स्वरगताध्यायः अंशेषु समपेष्वेतद्यथास्वनियमाद्भवेत् । एतदल्पनिगावाहुः कम्बलाश्वतरादयः ॥ २२ ॥ अल्पद्विश्रुतिके रागभाषाऽऽदावपि तन्मतम् । निगयोरंशयोः षड्जमध्यमायां न तद्भवेत् ।। २३ ॥ विकृता एव तत्रापि स्वरसाधारणाश्रयाः । साधारणं परिसंख्याति-अंशेषु समपेष्विति । एतत्स्वरसाधारणम् । यथास्वनियमात् ; स्वनियमः ‘प्रयोज्यौ षड्जमुच्चार्य' इत्यादिनोक्तः, तमनतिक्रम्य । अत्रेयं व्यवस्था–पञ्चम्यां पञ्चमे ऽशे, मध्यमाषड्जमध्यमयोः प्रत्येकं षड्जमध्यमपञ्चमेप्वंशेषु साधारणप्रयोग इति कम्बलाश्वतरादयः । एतत्स्वरसाधारणम् । काकल्यन्तरावित्यर्थः । अल्पनिगासु लोप्यनिषादगांधारासु जातिषु पञ्चमीमध्यमाषड्जमध्यमाऽऽख्यासु । एतदुक्तं भवति--निषादगांधारयोरन्यतरस्मिन्नंशे ऽन्यस्य तत्संवादित्वेन लोप्यत्वाभावात्काकल्यन्तरप्रयोगो न कर्तव्य इति । अल्पद्विश्रुतिके लोप्यनिषादगांधारे । रागभापाऽऽदावपीति । अत्र रागशब्देन ग्रामरागोपरागरागास्त्रयो ऽपि गृह्यन्ते ; भाषाशब्देन भाषाविभाषाऽन्तरभाषास्तिस्रो गृह्यन्ते ; आदिशब्देन पुना रागाङ्गभाषाऽङ्गक्रियाङ्गोपाङ्गचतुष्टयं गृह्यत इति दशविधो ऽपि रागप्रपञ्चो गृहीतः । तत्रापिशब्देन न केवलमल्पद्विश्रुतिकासु जातिप्वेव, किं त्वल्पद्विश्रुतिके रागादौ सर्वत्रापीति द्योत्यते । तत्काकल्यन्तरसाधारणं मतं भरतादीनां संमतम् || उक्तमर्थ व्यतिरेकेणाप्युदाहृत्य द्रढयन्नाहनिगयोरंशयोरिति । ‘पञ्चमीमध्यमा' इति भरतमतानुसारिणा वचनेन, 'एतदल्पनिगासु-' इति कम्बलाश्वतरादिमतानुसारिणा वचनेन चोपात्तासु यथास्वं नियमाद्भवेत. 23 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy