________________
१७६
संगीतरत्नाकरः
पञ्चमीमध्यमाषड्जमध्यमाऽऽख्यासु जातिषु । स्वरसाधारणं प्रोक्तं मुनिभिर्भरतादिभिः ॥ २१ ॥
[जाति
आर्षभी गांधारी मध्यमा पञ्चमी धैवती नैपादी षड्जोदीच्यवा पडुजमध्यमा रक्तगांधारी कैशिकी चेति । संपूर्णषाडवौडुविता: ; संपूर्णाश्च पाडवाचौविताश्च ता इति कर्मधारयः ; दशाप्येताः संपूर्णत्वादिव्यवस्थाssपन्ना इत्यर्थः । तद्यथा--- आर्षभी षड्जलोपात्पाडवा, सपलोपादौडुवा । गांधारीरक्तगांधारी कैशिक्यो रिलोपेन षाडवाः, रिधलोपेनौडुवाः । मध्यमापञ्चम्यौ गलोपेन षाडवे, निगलोपेनौडुवे । धैवतीनेषाद्यौ पलोपेन पाडवे, सपलोपेनौडुवे । षड्जोदीच्यवा रिलोपेन षाडवा. परिलोपेनौडुवा । षड्जमध्यमा निलोपेन षाडवा, निगलोपे नौडुवेति ॥ १७ - २० ॥
( सु० ) एतासां किययः कस्मिन्ग्राम इत्यपेक्षायामाह - चतस्र इति । एतासां जातीनां मध्ये षड्जशब्दवत्यश्चतस्त्रो जातय: षाड्जी षड्जकैशिकी षड्जमध्यमा षड्जोदीच्यवा चेति, तथा नैषादी धैवत्यार्षभी चेत्येताः सप्त षड्जग्रामोत्पन्नाः ; शेषा एकादश मध्यमप्रामोत्पन्नाः ॥ जातीनां पूर्णत्वषाडवत्वौडुवितत्वानि प्रतिज्ञाय कथयति - पूर्णत्वादीति । कार्मारवीगांधारपञ्चमीषड्जकैशिकीमध्यमोदीच्यवानां पूर्णत्वमेव, षाडवत्वमौडुवितत्वं च नास्ति । षाड्जीनन्दयन्त्यान्ध्री गांधारोदीच्यवानां संपूर्णत्वं षाडवत्वं च विद्यते, औडुवितत्वं नास्ति । अवशिष्टानां दशानां संपूर्णत्वं षाडवत्वमौडुवितत्वं चास्ति ॥ १५-२० ॥
(क० ) तत्र कासुचिज्जातिषु भरताद्युक्तं स्वरसाधारणप्रयोगे नियमं दर्शयति – पञ्चमीत्यादिना ॥ अनेनैव वचनेन पञ्चमीमध्यमाषड्जमध्यमासु तिसृषु जातिषु यथायोगं षड्जमध्यमपञ्चमानामन्यतमस्यांशत्वे स्वरान्तरस्यांशत्वे चोभयत्र स्वरसाधारणे प्राप्ते, स्वरान्तरांशत्वपक्ष निवृत्त्यर्थं स्वर
Scanned by Gitarth Ganga Research Institute