SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगताध्यायः चतस्रः पड्जशब्दिन्यो नेपाढ़ी धैवती तथा । आर्पभी चेति सप्तैताः पड्जग्रामस्य जातयः ॥ १७ ॥ शेषाः स्युर्मध्यमग्रामे पूर्णत्वाद्यधुनोच्यते । कार्मारव्यथ गांधारपञ्चमी पड्जकैशिकी ।। १८ ।। मध्यमोदीच्यवेत्येता नित्यपूर्णाः प्रकीर्तिताः । पाड्जी च नन्दयन्त्यान्ध्री गांधरोदीच्यवेत्यम्: ।। १९ । संपूर्णपाडवा: प्राह चतस्रः काश्यपो मुनिः । दशावशिष्टाः संपूर्णपाडवोडविता मताः ॥ २० ॥ १७५ नैषादीमध्यमा पञ्चमीभ्यो रक्तगांधारी । षाड्जीगांधारीमध्यमापञ्चमीनैषादीभ्यः कैशिकी ॥ ८- १६ ॥ (क० ) सर्वासामपि जातीनां ग्रामविभागं दर्शयति – चतस्र इत्यादिना । अष्टादशसु जातिषु मध्ये यथायोगं संपूर्णत्वादिना साधर्म्य - माह - -- पूर्णत्वादीत्यादिना । पूर्णत्वादीत्यादिशब्देन पाडवत्वमौडुवत्वं च गृह्यते । नित्यपूर्णा नित्यं सदा पूर्णाः ; न कदाचिदपि पाडवौडुवावस्थाssपन्ना इत्यर्थः । संपूर्णषाडवाः, संपूर्णाश्च ताः षाडवाश्च । षाड्जीनन्दयन्त्यान्ध्रीगांधारोदीच्यवाश्चतस्रो जातयो भरतादिमतपर्यालोचनया संपूर्णत्वेन पाडवत्वेन च नियमिता इति निश्चित्य कथ्यन्त इत्यर्थः । एवं च सति यदा गाता ताः षाडवीकर्तुमिच्छति, तदा वक्ष्यमाणलक्षणानुसारेण षाड्ज्यां निषादलोपेन, नन्दयन्त्याप्रयोः षड्जलोपेन गांधारोदीच्यवायामृषभलोपेन च षाडवत्वं नियतं द्रष्टव्यम् || दशावशिष्टा इति । अवशिष्टा नित्य पूर्णाभ्यश्चतसृभ्यः संपूर्णपाडवाभ्यश्चतसृभ्यश्च व्यतिरिक्ता दश ' सोढलात्मज:. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy