SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७४ संगीतरत्नाकरः [जातिपाड्जिकामध्यमाभ्यां तु जायते षड्जमध्यमा । गांधारीपञ्चमीभ्यां तु जाता गांधारपञ्चमी ॥ ११ ॥ गांधार्यार्पभिकाभ्यां तु जातिरान्ध्री प्रजायते । पाड्जी गांधारिका तद्वद्धैवती मिलितास्त्विमाः ॥ १२ ॥ पड्जोदीच्यवर्ती जातिं कुर्युः कार्मारवीं पुनः । उत्पादयन्ति नैषादीपञ्चम्यापभिका युताः ॥ १३ ॥ नन्दयन्ती तु गांधारीपञ्चम्यार्पभिका युताः । गांधारी धैवती पाड्जी मध्यमेति युतास्त्विमाः ॥ १४ ।। गांधारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः। एता एव विना पाज्या पञ्चम्या सह कुर्वते ।। १५ ।। कुर्युस्ता रक्तगांधारी नैयादी च न धैवती । आपभी धैवतीं त्यक्त्वा पञ्चभ्यः कैशिकी भवेत् ॥ १६ ॥ शिकीत्यादिना पश्चभ्यः कैशिकी भवेदित्यन्तेन । अत्राष्टादशसु जातिसंज्ञासु पाङ्ज्यादीनां कासांचिदन्वर्थतया योगरूढता, कार्मारव्यादीनां तु कतिपयानां केवलरूढतेवेति मन्तव्यम् ॥ ८-१६ ॥ (मु०) विकृतसंसर्गाज्जाता एकादश जातीनित्यविकृताः कथयतिविकृतानां त्विति । एतासामेकादशानां विकृतानां जातीनां कारणभूता जाती: कथयति-पाड्जीति । षाड्जीगांधारिकाभ्यां षड्जकैशिकी जायते । षाड्जीमध्यमाभ्यां षड्जमध्यमा । गांधारीपञ्चमीभ्यां गांधारपञ्चमी । गांधार्षिभिकाभ्यामान्ध्री । घाड्जीधैवतीगांधारीभ्यः षड्जोदीच्यवती। नैषादीपञ्चम्यापभीभ्यः कार्मारवी। गांधारीपञ्चम्यापभीभ्यो नन्दयन्ती । गांधारीधैवतीषाड्जीमध्यमाभ्यो गांधारोदीच्यवा। गांधारीधैवतीमध्यमापञ्चमीभ्यो मध्यमोदीच्यवा। गांधारी Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy