SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगलाध्यायः विकृतानां तु संसर्गाज्जाता एकादश स्मृताः । स्यात्पड्जकैशिकी पड्जोदीच्यवा षड्जमध्यमा ॥ ८ ॥ गांधारोदीच्या रक्तगांधारी कैशिकी तथा । मध्यमोदीच्या कार्मारवी गांधारपञ्चमी ।। ९ ।। तथाssध्री नन्दयन्तीति तद्धेतूनधुना ब्रुवे | पाजीगांधारिकायोगाज्जायते पजकैशिकी || १० || १७३ अपन्यासपरित्यागेनैकः, एवमेकैकपरित्यागे चत्वारो भेदाः । संपूर्णत्वग्रहपरित्यागेनैकः, संपूर्णत्वांशपरित्यागेनैकः, संपूर्णत्वापन्यास परित्यागेनकः, ग्रहांशपरित्यागेनैकः, ग्रहापन्यासपरित्यागेनैकः, अंशापन्यासपरित्यागेनेकः, एवं लक्षणद्वयपरित्यागे पड् भेदा विकृता भवन्ति । संपूर्णत्वग्रहांश परित्यागेनैकः, संपूर्णत्वग्रहापन्यास परित्यागेनैकः, संपूर्णत्वांशापन्यास परित्यागेनैकः, ग्रहांशापन्यासपरित्यागेनैकः, एवं लक्षणत्रयपरित्यागे चत्वारो भेदा विकृता भवन्ति । लक्षणचतुष्टयपरित्याग एक एवं भेद: । एवं षाड्ज्याः पञ्चदश भेदा भवन्ति । तेषु पूर्णताहीना अष्टौ इतर लक्षणहीनाः सप्त । षाड्ज्या: षाडवत्वेनैवासंपूर्णत्वम् । अन्यासां षाडवत्वेनौडुवितत्वेन च भेदाधिक्यं कथयितुमाह-- द्विधा स्युरिति । पूर्णताहीना भेदाः षट्स्वरत्वेन पञ्चस्वरत्वेन च द्विविधाः । अत आभ्यादिषु षट्सु जातिष्वष्टौ भेदा अधिका विकृता भवन्ति । अतः प्रत्येकं तासां त्रयोविंशतिर्विकृता भेदाः । एतासां मिलिता विकृतभेदास्त्रिपञ्चाशदधिकं शतं भवन्ति ॥ ४–७ ॥ (क०) उक्त विकृतभेदसंसर्गोत्पन्नानां व्यपदेशान्तरभाजां विकृतजातीनां संख्यामाह - विकृतानां त्विति । तुशब्दो भिन्नक्रमः - विकृतानां संसर्गाज्जातास्त्विति । उक्ता विकृताः शुद्ध जातीनामेवावस्थाऽन्तराणि, एताः पुनस्तद्विकृतभेदसंसर्गोत्पन्नत्वान्न तथेति तुशब्दार्थः ॥ ता उद्दिश्य तासां निमित्तभूतं विकृतावस्थाऽऽपन्नषाड्ज्यादिसं दर्शयति – स्यात्पड्जकै - Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy