SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७२ संगीतरत्नाकरः [जातिभेदा भवन्ति । त्यागे त्रयाणां चत्वार इति । संपूर्णत्वग्रहांशैः संपूर्णत्वग्रहापन्यासैः संपूर्णत्वांशापन्यासैफेहांशापन्यासैस्त्यक्तैश्चत्वारो भेदाः । चतुष्टय त्यक्त एको भेद इत्येते पञ्चदशैव भेदाः पाज्या निरूपिताः ॥ संपूर्णताहीनानामवान्तरभेदं वक्तुं विभजते-तत्राष्टाविति । तत्र पञ्चदशसु मध्ये ऽष्टौ भेदाः पूर्णताहीनाः संपूर्णत्वरहिताः । सप्त वितरवर्जिताः । संपूर्णत्वयुक्तत्वे सतीतरेषु ग्रहांशापन्यासेषु यथायोगमेकेन द्वाभ्यां त्रिभिर्वा वर्जिता द्विधा म्युः । पूर्णताहीना अष्टौ भेदाः षाडवौडुवभेदतो द्विधा स्युः पोडश भवन्तीत्यर्थः । ननु पूर्णताहीनानां भेदानां चतु:स्वरादिभिरपि भेदैः सह षड़िधत्वे संभवति कथं द्वैविध्यमिति चेत् ; उच्यते-पूर्णताहीना इत्यनेन चतुःस्वरादीनां च प्रतीतो सत्यामपि नञिवयुक्तन्यायेन जातिरागसंपादकत्वात्संपूर्णत्वसदृशप्रतिपत्त्या पाडवौडवयोरेवात्र ग्रहणमिति । चतुःस्वरप्रयोगस्तु भरतनापकृष्टध्रुवायामेवोक्तः । त्रिस्वरादीनां प्रयोगस्तु सामव्यतिरिक्तर्गादौ' द्रष्टव्यः । पाड्ज्यपेक्षया ऽऽर्षभ्यादिपु षट्सु जातिषु भेदाधिक्यं दर्शयति-अतो ऽष्टाविति । अतो ऽस्याः पूर्णताहीनेषु षोडशस्वष्टाभिरेव पाडवभैदैः पूर्णतायुक्तैरितरवर्जितैः सप्तभिः सह पञ्चदशभेदवत्त्वेनोक्तायाः पाड्ज्या इतराम्वार्पभ्यादिप्वौडुवजातिप्वौडुवावस्थया ऽपि युक्तास्वष्टावौडुवभेदा अधिकाः । अतः कारणात्ता आर्षभ्यादयः षड् जातयः प्रत्येकं त्रयोविंशतिधेरिता इति सप्तसु जातिषु विकृतभेदा मिलितास्त्रिपञ्चाशदुत्तरं शतं भवन्ति ॥ ४ -७ ॥ (सु०) विकृतभेदान्गणयति- संपूर्णत्वेति । शुद्धजातीनां चत्वारि लक्षणानि-नामस्वरग्रहत्वं नामस्वरांशत्वं नामस्वरापन्यासत्वं संपूर्णत्वं चेति । तत्र संपूर्णत्वपरित्यागेनको विकृतभेदः, ग्रहपरित्यागेनकः, अंशपरित्यागेनैकः, । सामगाधर्भु. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy