________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः संपूर्णत्वग्रहांशापन्यासेष्वेकैकवर्जनात् । भवन्ति भेदाश्चत्वारो द्वयोस्त्यागे तु षण्मताः ॥ ४ ॥ त्यागे त्रयाणां चत्वार एकस्त्यक्ते चतुष्टये । भेदाः पञ्चदशैवते पाड्ज्याः सद्भिनिरूपिताः ॥ ५॥ तत्राष्टौ पूर्णताहीनाः सप्त वितरवर्जिताः । द्विधा स्युः पूर्णताहीनाः पाडवौडुवभेदतः ॥६॥ अतो ऽष्टावधिका आपभ्यादिष्वौडवजातिषु । अतस्त्रयोविंशतिधा षट्सु प्रत्येकमीरिताः ।। ७ ।।
जातीनां शुद्धत्वं विकृतत्वं च रूपद्वयमस्ति; षड्जकैशिक्यादीनामेकादशजातीनां तु विकृतत्वमेव, न शुद्धत्वम् ।' इति । जातिशब्दव्युत्पत्तिस्तु मतङ्गेनोक्ता'श्रुतिस्वरप्रामसमूहाज्जायन्त इति जातयः ; यद्वा ग्रहादिभ्यो जायन्त इति जातयः ; अथ वा जायते रसप्रतीतिराभ्य इति जातयः; यद्वा सकलस्य रागादेर्जन्महेतुत्वाजातयः; अथ वा यथा नराणां ब्राह्मणत्वादयो जातयः शुद्धा विकृताश्च, एवमेता अपीति जातयः ॥' इति ॥ -३ ॥
(क०) न्यासव्यतिरिक्तसंपूर्णत्वादिषु चतुर्पु लक्षणेष्वेकद्वयादिपरित्यागेन संभूतान्भेदान्षाड़ज्यादिषु यथासंभवं परिगणयति-संपूर्णत्वेत्यादिना। एकैकवर्जनादिति संपूर्णत्वादीनां स्वरूपनिषेधो न क्रियते, जात्यनुत्पत्तिप्रसङ्गात ; अपि तु नियतस्वरपर्युदासात्स्वरान्तरविधिर्विज्ञायते । भवन्ति भेदाश्चत्वार इति । संपूर्णत्ववर्जने कृते ग्रहांशापन्यासयुक्त एकः, ग्रहवर्जने संपूर्णत्वांशापन्यासवान्द्वितीयः, अंशवर्जने संपूर्णत्वग्रहापन्यासवांस्तृतीयः, अपन्यासवर्जने संपूर्णत्वग्रहांशयुक्तश्चतुर्थो भेदः, इति चत्वारो भेदाः । द्वयोस्त्यागे तु पण्मता इति । संपूर्णत्वग्रहाभ्यां संपूर्णत्वांशाभ्यां संपूर्णत्वापन्यासाभ्यां ग्रहांशाभ्यां ग्रहापन्यासाभ्यामंशापन्यासाभ्यां त्यक्ताभ्यां पड़
Scanned by Gitarth Ganga Research Institute