SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७० संगीतरत्नाकरः [जाति विकृता न्यासवनँतल्लक्ष्महीना भवन्त्यमूः ॥ ३ ॥ षाज्यां मध्यषड्जन्यासत्वं मतङ्गोक्तं लक्ष्य विरुध्येत । पूर्णाः सप्तस्वरयुक्ताः । शुद्धाभिधाः शुद्धा इति संज्ञा यासां ताः ॥ १-२- ॥ (सु०) जातीनिरूपयति-शुद्धाः स्युरिति । शुद्धाः सप्त जातयो भवन्ति । तासां किं नामेत्यपेक्षायामाह-ताः षड्जादिस्वराभिधा इति । षड्जादयः सप्त स्वरास्तासां नाम्नि कारणभूताः। तासां तान्येव स्वरसंबन्धीनि नामानि कथयति-पाड्जीति । तासां शुद्धतालक्षणं प्रतिज्ञाय कथयति-शुद्धतेति । यासां जातीनां नामस्वर एव न्यासो ऽपन्यासो ऽशो ग्रहश्च भवति, न्यासस्वरश्च तारो न भवति ताः शुद्धा जातयो ज्ञातव्याः । न्यासादिलक्षणं वक्ष्यति ॥१--२-॥ __(क०) अमू: शुद्धाः पाड्ज्यादय एव । न्यासव तल्लक्ष्महीना इति । जातीनां शुद्धतायामभिहितेषु नामस्वरस्यैव न्यासापन्यासांशग्रहत्वेषु ससंपूर्णत्वेषु पञ्चसु लक्षणेपु मध्ये न्यासवर्ज न्यासनियमस्यैकस्य सङ्गं परिहृत्यैतल्लक्ष्मभिरपन्यासांशग्रहपूर्णत्वैींना नियतैरेतैर्वर्जिताः । अयमर्थःनामस्वरमेव न्यासं कृत्वा उपन्यासादी-स्वरान्तराणि कुर्यादिति । एवं कृता यदि, तदा विकृता विकृतावस्थाऽऽपन्ना भवन्ति, न तु विकृतसंसर्गजातजातिवद्वयपदेशान्तरभाज इत्यर्थः । अत्र न्यासनियमस्य परित्यागो नेप्टः ; तस्मिन्नपि परित्यक्ते सति विकृतासु जात्यन्तरभेदकत्वेन प्रधानभूतावयवाननुवृत्तौ तासां तत्तच्छुद्धजातिभेदत्वप्रतीतिर्न स्यात् ॥ ३ ॥ (सु०) विकृता जातीः कथयति-विकृता इति । न्यासं विनोक्तलक्षणहीना विकृता: । न्यासलक्षणहीनत्वं तारन्यासत्वम् । तत्कि विकृतानां न संभवति ? न । तदुक्तं मतङ्गेन-'याः शुद्धास्तासु नामकारी न्यासो नियमेन मन्द्रो भवति ; या विकृतास्तासु नामकारी मन्द्रो भवतीत्यनियमः । तत्र शुद्धानां Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy