________________
प्रथमः स्वग्गताध्याय:
१६९.
अथ सप्तमं जातिप्रकरणम्
शुद्धाः स्युर्जातयः सप्त ताः पड़जादिस्वराभिधाः । पाड्ज्यापभी च गांधारी मध्यमा पञ्चमी तथा ।। १ ।। धैवती चाथ नैपादी शुद्धतालक्ष्म कथ्यते । यासां नामस्वरो न्यासो ऽपन्यासो ऽशो ग्रहस्तथा ॥ २ ।। तारन्यासविहीनास्ताः पूर्णाः शुद्धाभिधा मताः ।
(क०) गानक्रियाऽऽत्मकवर्णालंकारनिरूपणानन्तरमलंकार्यतया प्रतीतगीताद्यनुगतत्वेन प्रसक्तानां जातीनां लक्षणमुद्दिष्टं विवेक्तुकामस्तलक्ष्यत्वेनाक्षिप्ता जातीः सप्रभेदं लक्षयितुमुद्दिशति- शुद्धाः स्युरित्यादिना । जातय इति । यथायोगं ग्रामद्वयाज्जायन्त इति जातयः । अत एवानित्यतया साकल्येन सामान्यरूपजातिलक्षणाभावे ऽप्यनेकगेयव्यक्तिप्वनुवृत्तत्वमात्रेण गोत्वादिजातिवज्जातय इति वा, गीतजातं तस्योपरञ्जनं वा ऽऽभ्यो जायत इति जातय इति वा जातिशब्दव्युत्पत्तिर्मतङ्गाद्यभिमता द्रष्टव्या । जातयः शुद्धा वक्ष्यमाणशुद्धत्वलक्षणोपेताः सप्त स्युः । ताः षड्जादिस्वराभिधाः ; षड़जादिस्वराणामभिधा इवाभिधा यासां ता इत्युपमानपूर्वपदो बहुव्रीहिः ; यद्वा षड्जादिस्वरवाचकाः पड्जादिशब्दाः प्रकृतित्वेनाभिधाः संज्ञा यासां ताः । अत्राभिधाशब्दस्यावृत्तिः कर्तव्या । तथैवोद्दिशति-पाड्जीत्यादिना । तासां शुद्धत्वं किमित्यत आह-शुद्धतालक्ष्मेति । यासां षाड़ज्यादीनां नामस्वरः षड्जादिरेव वक्ष्यमाणलक्षणन्यासत्वाद्यवस्थाऽऽपन्नो भवति, याश्च तारन्यासविहीनास्तारस्थाने न्यासरहिता इति विशेषनिषेधः शेषाभ्यनुज्ञां गमयतीति मन्द्रमध्यस्थानयोर्यथायोगं न्यास विधिरिप्यते । यदपि भरतेन 'न्यासः शुद्धासु मन्द्रे स्यात् ' इत्युक्तं तत्तारनिषेधपरं द्रष्टव्यम् । अन्यथा
22
Scanned by Gitarth Ganga Research Institute