SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६८ संगीतरत्नाकरः [वर्णा० प्रकरणम् ६] द्विह्निः प्रयुज्यते तज्जैरुपलोलस्तदोच्यते । सरिसरिगरिगरि रिगरिंगमगमग गमगमपमपम मपमपधपधप पधपधनिधनिध । (६) द्विर्गीत्वा ऽऽयं तृतीयं च प्रथमं च तृतीयकम् ॥ ६२ ॥ सकृद्गायेद्यत्कलायां तमुल्लासितमूचिरे । ससगसग रिरिमरिम गगपगप ममधमध पपनिपनि । (७) इति सप्तालंकाराः । इति प्रसिद्धालंकारास्त्रिपष्टिरुदिता मया ॥ ६३ ॥ अनन्तत्वात्त ते शास्त्रे न सामस्त्येन कीर्तिताः। रक्तिलाभः स्वरज्ञानं वर्णाङ्गानां विचित्रता ॥ ६४॥ इति प्रयोजनान्याहुरलंकारनिरूपणे । तदोपलोलाख्यो ऽलंकारः ॥ -६१,६१- ॥ उल्लासितं लक्षयति-द्विरिति । यस्य कलायामाद्यं स्वरं द्विर्गीत्वा तृतीयं प्रथमं पुनस्तृतीयं च सकृद्गीयते तमुलासितमूचिरे संगीताचार्याः ॥ ६२, ६२- ॥ इति सप्तालंकारा: ॥ समस्तालंकारकथनमशक्यमित्याह-इतीति ॥ ६३, ६३- ॥ अलंकारप्रयोजनमाहरक्तिलाभ इति । स्वराणां रञ्जकत्वज्ञानं स्वरूपज्ञानं स्थाय्यादिवर्णानां वैचित्र्यं चालंकारनिरूपणे प्रयोजनमः ॥ -६४, ६४- ॥ इति प्रथमे स्वरगताध्याये पष्ठं वर्णालंकारप्रकरणम् ॥६॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy