________________
प्रकरणम ६] प्रथमः स्वरगताध्यायः मन्द्रतारप्रंसन्नाख्यमाह माहेश्वरोत्तमः ।
संसनिधपमगरिसं । (२) आद्यं द्वितीयमाद्यं च द्विर्गीित्वा द्वितीयकम् ॥ ५८ ॥ सकृदाद्यं यत्कलायां गायेदावर्तकस्तु सः । ससरिरिससरिस रिरिंगगरिरिगरि गगममगगमग ममपप
ममपम पपधधपपधप धधनिनिधधनिध । (३) एतस्यैव कला ऽन्त्यौ द्वौ स्वरौ संत्यज्य गीयते ।। ५९ ॥ यदा तदा संपदानमलंकारं विदुर्बुधाः। ससरिरिसस रिरिगगरिरि गगममगग ममपपमम पपधधपप
धधनिनिधध । (४) युग्ममेकान्तरितयोस्त्यक्तादप्येवमेव चेत् ॥ ६० ॥ द्विह्निः प्रयुज्येत तदा विधूतो बुधसंमतः ।
सगसग रिमरिम गपगप मधमध पनिपनि । (५) कलायामाद्ययोर्युग्मं चेत्तृतीयद्वितीययोः ॥ ६१ ॥
लक्षयति-मन्द्रादिति । मन्द्रादष्टमस्वरं गीत्वा यदि सप्त स्वरा अवरोहेण गीयन्ते तदा मन्द्रतारप्रसन्नाख्यो ऽलंकारः ॥ ५७, ५७- | आवर्तकं लक्षयतिआद्यमिति । आद्यं स्वरं द्वितीयं पुनराद्यं च द्विद्विवारं गीत्वा पुनर्द्वितीयमाद्यं च यदि सकृद्गायेत्तदा ऽऽवर्तकाख्यो ऽलंकारः ॥ -५८,५८- ॥ संप्रदानं लक्षयतिएतस्यैवेति । एतस्यावर्तकस्यान्त्यं स्वरद्वयं विहाय यदि कला गीयन्ते तदा संप्रदानाख्यो ऽलंकारः ॥ -५९,५९- ॥ विधूतालंकारं लक्षयति-युग्ममिति । एकान्तरितं स्वरद्वयं द्विर्गायेत ; त्यक्तमारभ्यैकान्तरितं स्वरद्वयं द्विर्गायेत् ; एवं चतुःस्वर: पञ्चकलो विधूताख्यो ऽलंकारः ॥-६०,६०- ॥ उपलोलं लक्षयतिकलायामिति । प्रथमस्वरयोयुग्मं द्विर्गीत्वा तृतीयद्वितीयस्वरयोयुग्मं द्विर्गीयते यदा
Scanned by Gitarth Ganga Research Institute