________________
१७८
संगीतरत्नाकरः
[जातिएकांशा नन्दयन्ती च मध्यमोदीच्यवा तथा ॥ २४ ॥ गांधारपश्चमीत्येतास्तिस्रो द्वयंशास्तु धैवती ।
गांधारोदीच्यवा चाथ पञ्चमीत्युदिता इमाः ॥ २५ ॥ पञ्चमीमध्यमाषड्जमध्यमाषाड्जीषु चतसृषु षड्जमध्यमाया विकृतसंसर्गजत्वेन केवलविकृतत्वाच्छुद्धताया अभावे ऽपीतरासां तिसृणां शुद्धावस्थायां विकृतावस्थायां चाविशेषेण स्वरसाधारणे प्राप्ते नियमयति-विकृता एवेति । तत्रापीति । तत्र पञ्चमीमध्यमाषाड्जीषु तिसृषु । अयमभिसंधिः-पाड्ज्यादिषु शुद्धावस्थायां विकृतस्वरप्रयोगो न कर्तव्य इति ॥ २१-२३- ॥
(सु०) पञ्चमीति । पञ्चमीमध्यमाषड्जमध्यमासु जातिषु स्वरसाधारणं प्रयोक्तव्यमित्युक्तं श्रीभरतादिभिः ॥ २१ ॥ अंशेष्विति । षड्जमध्यमपञ्चमेष्वंशेष्वेतत्स्वरसाधारणं नियमात्कर्तव्यम् । कथम् ? यथास्वं स्वकीयं स्थानमनतिक्रम्य । यदा षड्जो ऽशस्वरस्तदा षड्जसाधारणम् , यदा मध्यमपञ्चमौ तदा मध्यमसाधारणमिति । एतत्स्वरसाधारणमल्पनिषादगांधारासु जातिषु भवतीति कम्बलाश्वतरादय आहुः । अल्पनिषादगांधारे रागभाषाऽऽदावपि स्वरसाधारणं प्रयोक्तव्यमिति तेषां कम्बलाश्वतरादीनां मतम् ॥ २२, २२-॥ निगयोरिति । यदा षड्जमध्यमायां निषादगांधारावंशौ तदा तत्स्वरसाधारणं न प्रयोक्तव्यम् । प्रायस्तु विकृता एव स्वरसाधारणयोगिन्यः ॥ २३, २३-॥
(क०) अथाष्टादशसु जातिषु यथायोगमेकांशकादिसप्तांशकान्तं वक्ष्यमाणलक्षणांशस्वरसंबन्धकथनेन संभूतामंशसंख्यामवधारयति-एकांशा इत्यादिना जातिष्वष्टादशस्विम इत्यन्तेन । एकांशा एकः स्वरो ऽशो यासा ताः । नन्दयन्तीमध्यमोदीच्यवागांधारपञ्चमीनां तिसृणां वक्ष्यमाणलक्षणानुसारेण प्रत्येकं पञ्चमो ऽशो वेदितव्यः । द्वयंशास्त्विति । धैवतीगांधारोदीच्यवापञ्चम्यो द्वयंशाः । तत्र धैवत्यामृषभधैवतावंशौ ; गांधारोदीच्यवायां षड्ज
Scanned by Gitarth Ganga Research Institute