________________
१६४
संगीतरत्नाकरः
[वर्णालंकारसरिसरिगसरिगम रिगरिंगमरिगमप गमगमपगमपध
मपमपधमपनि । (१७)
स तूट्टित उच्यते । यत्र स्वरद्वयं गीत्वा पञ्चमाच्चतुरः स्वरान् ॥ ४५ ॥ अवरोहेकला गायेत्तथैकैकोज्झनात्पराः।
सरिपमगरि रिगधपमग गमनिधपम । (१८) द्विरुक्ता यदि मन्द्रान्ता मन्द्रादेः स्युः कलास्तदा ॥ ४६॥ रञ्जितः सगरिसगरिस रिमगरिमगरि गपमगपमग मधपमधपम
पनिधपनिधप । (१९) अथ भवेदेप संनिवृत्तप्रवृत्तकः । यत्राद्यपञ्चमौ गीत्वा तुर्यास्त्रीनवरोहति ॥ ४७ ॥ क्रमात्कला सा यत्रान्यास्तद्वदेकैकहानतः ।
सपमगरि रिधपमग गनिधपम । (२०)
लक्षयति-कला इति । प्रथमस्वरमारभ्य तिस्रः कला गेयाः । एका द्विस्वरा, एका त्रिस्वरा, एका चतुःस्वरा । एवं द्वितीयतृतीयचतुर्थस्वरमारभ्य तिस्रः कला यत्र गीयन्ते स क्रमाख्यो ऽलंकारः ॥ -४४, ४४- ॥ उद्घट्टितं लक्षयति-स त्विति । आदित आरभ्य स्वरद्वयं गीत्वा पञ्चमस्वराच्चतुर: स्वरानवरोहेत् , एवं द्वितीयं तृतीयं च स्वरमारभ्येत्येवं कलात्रयं यत्र स उद्घट्टिताख्यो ऽलंकारः ॥ ४५, ४५- ॥ रञ्जितं लक्षयति-द्विरुक्ता इति । मन्द्रादेः प्रथमतृतीयद्वितीयस्वरयुक्तस्य कला यदि द्विरुच्चार्यते, अन्ते च मन्द्रो मूर्च्छनाप्रथमस्वरो निक्षिप्यते, तदा रञ्जिताख्यो ऽलंकारः ॥ -४६, ४६- ॥ संनिवृत्तप्रवृत्तकं लक्षयति---अथ भवेदिति । यत्र प्रथमं पञ्चमं च स्वरं गीत्वा तुर्यात्स्वरात्रीन्स्वरानवरोहेण गायेत् , एवमेका कला, प्रथमैकैकस्वरपरित्यागाच्चान्यत्कलाद्वयम् , स संनिवृत्तप्रवृत्ताख्यो
Scanned by Gitarth Ganga Research Institute