________________
प्रकरणम् ६] प्रथमः स्वरगताध्यायः
१६५ यत्राद्यः स्याद् द्विर्द्वितीयचतुर्थकतृतीयकाः ॥ ४८ ॥ सकृत्कला ऽन्याश्चैकैकहानाद्वेणुरसौ मतः ।
ससरिमग रिरिगपम गगमप ममपनिध । (२१) गीत्वा ऽऽद्यौ द्वौ चतुर्थं च यस्यां ताववरोहति ॥ ४९ ॥ सा कला ऽन्याश्च तादृश्यो यत्रासौ ललितस्वरः ।
सरिमरिस रिगपगरि गमधमग मपनिपम । (२२) आदिमेन कला यत्र द्विस्वरा ऽऽद्या गतागतैः ॥ ५० ॥ स्वरैरैकोत्तरं दृद्धैः स हुंकारो निगद्यते ।
सरिस सरिगरिस सरिगमगरिस सरिगमपमगरिस
सरिगमपधपमगरिस सरिगमपधनिधपमगरिस । (२३) हादमाने प्रसन्नान्ता मन्द्रादेस्तु कला मताः ॥ ५१॥
सगरिस रिमगरि गपमग मधपम पनिधप । (२४) यदा ऽऽरोहे ऽवरोहे च स्वद्वितीयं परित्यजेत ।
ऽलंकार: -४७, ४७- ॥ वेणुं लक्षयति-यत्रेति । यस्मिन्नाद्यः स्वरो द्विर्गीयते, द्वितीयचतुर्थतृतीयस्वराश्च सकृद्रीयन्ते सैका कला, प्रथमैकैकम्वरपरित्यागाच्चान्याः कला:, स वेणुरलंकारः ॥ -४८, ४८- ॥ ललितस्वरं लक्षयति-गीत्वेति । प्रथमस्वरद्वयं गीत्वा तदनन्तरं चतुर्थ गीत्वा तौ प्रथमद्वितीयाववरोहेत् । सैका कला भवति । अन्याश्च द्वितीयतृतीयतुर्यस्वराद्यास्तिस्रः कला: । स ललितस्वराख्यो ऽलंकारः ॥ -४९, ४९- ॥ हुंकारं लक्षयति-आदिमेनेति । आदिमेन प्रथमेन स्वरेण द्विस्वरा कला गतागतैरारोहावरोहैः, ततस्त्रिस्वरा, ततश्चतु:स्वरा, ततः पञ्चस्वरा, ततः षदस्वरा, ततः सप्तस्वरा, आरोहावरोहैयंत्र गीयन्ते स हुंकाराख्यो ऽलंकार: ॥ -५०, ५०- ॥ हादमानं लक्षयति-द्वादमान इति । मन्द्रादेः प्रथमद्वितीयतृतीयस्वरयुक्तस्य प्रसन्नान्ताः प्रथमस्वरान्ता: कला यदि गीयन्ते तदा ह्रादमानाख्यो ऽलंकारः ॥-५१ ॥ अवलोकितं लक्षयति-यदेति ।
Scanned by Gitarth Ganga Research Institute