________________
१६१
प्रकरणम् ६] प्रथमः स्वरगताध्यायः
यदा तदा प्रसादं तमाह श्रीकरणेश्वरः ।
सरिस रिगरि गमग मपम पधप धनिध । (५) चतुःस्वरा कला तत्राद्यात्तृतीयं द्वितीयकात् ।। ३३॥ तुर्य गत्वा ऽऽदिमं गच्छेदेवमेकैकहानतः । चतुःस्वराः परा यत्र स व्यावृत्तः स्मृतो बुधैः ॥ ३४ ॥ ____सगरिमस रिमगपरि गपमधग मधपनिम । (६) कलां प्रयुज्य मन्द्रादेर्द्विरुक्तोलस्वरान्विताम् । अवरुह्येत चेदेप स्खलिताख्यस्तदा भवेत् ॥ ३५ ॥ सगरिममरिगस रिमगपपगरि गपमधधमपग
मधपनिनिपधम । (७) स्वरं द्वितीयमुज्झित्वा त्रिस्वरा ऽऽद्या कला यदि । त्यक्तादारभ्य तादृश्यो ऽन्यास्तदा परिवर्तकः ।। ३६ ॥
सगम रिमप गपध मधनि । (८) त्रिस्वराश्चेत्कलाः पूर्वपूर्वत्यागोर्ध्वसंक्रमैः ।
परस्य द्वितीयस्वरस्योर्ध्वाधोवाद्यन्तवर्ती यदि क्रियते तदा प्रसादाख्यो ऽलंकारः ॥ -३२, ३२- ॥ व्यावृत्तं लक्षयति-चतुःस्वरेति । एतस्मिन्कला चतुःस्वरा । तस्याः प्रथमतृतीयद्वितीयचतुर्थाद्याः स्वरा उच्चार्याः, प्रथमस्वरपरित्यागेनान्यदेवमेव कलात्रयं यत्र स व्यावृत्ताख्यो ऽलंकार: ॥ -३३, ३४ ॥ स्खलितं लक्षयति-कलामिति । मन्द्रादेरलंकारस्य प्रथमतृतीयद्वितीयस्वरयुक्तां त्रिस्वरां कलां प्रयुज्योर्ध्व स्वरं चतुर्थ स्वरं द्विरुच्चार्य सकलावरोहेण चेदुच्चार्यंत तदा ऽष्टस्वरकलः स्खलिताख्यो ऽलंकारः ॥ ३५॥ परिवर्तकं लक्षयतिस्वरमिति । द्वितीयस्वरमुज्झित्वा प्रथमतृतीयचतुर्थस्वरैस्त्रिस्वरा प्रथमा कला, त्यक्ताद् द्वितीयस्वरादारभ्यैवमेवान्याः कला यत्र स परिवर्तकाख्यो ऽलंकारः ॥३६॥ आक्षेपं लक्षयति-त्रिस्वग इति । त्रिस्वरा: कला: पूर्वपूर्वपरित्यागेनोर्ध्वस्वर
21
Scanned by Gitarth Ganga Research Institute