________________
१६०
संगीतरत्नाकरः
[वर्णालंकारहुंकारो हादमानश्च ततः स्यादवलोकितः । स्युः संचारिण्यलंकाराः पञ्चविंशतिरित्यमी ॥ २९ ॥ त्रिस्वरा ऽद्या कलैकैकमन्द्रत्यागेन चापराः । त्रिस्वराश्चेत्कला मन्द्राधा मन्द्रादिस्तदा भवेत् ॥ ३० ॥ ___ सगरि रिमग गपम मधप पनिध । (१) ताः कला मन्द्रमध्यान्ताः क्रमाञ्चेदपरौ तदा ।
मन्द्रमध्यो यथागसरि मरिग पगम धमप निपध । (२)
मन्द्रान्तो यथारिगस गमरि मपग पधम धनिप । (३) त्यक्तान्तरं स्वरयुगं त्यक्तादारभ्यते पुनः ॥ ३१ ॥ युगं तादृक्समारोहेत्तदा प्रस्तार उच्यते ।
सग रिम गप मध पनि । (४) पूर्वः पूर्वः परस्योर्ध्वाधोवर्ती क्रियते स्वरः ।। ३२ ॥
पञ्चविंशतिरलंकाराः संचारिणः ॥ -२६-२९ ॥ तत्र मन्द्रादि लक्षयतित्रिस्वरेति । आद्या कला त्रिस्वरा प्रथमतृतीयद्वितीयस्वरयुक्ता, अन्या अपि मन्द्राद्याः कला एकैकमन्द्रत्यागेन यदि भवन्ति तदा मन्द्रादिरलंकारः ॥ ३० ॥ मन्द्रमध्यमन्द्रान्तौ लक्षयति--ता इति । तास्वेव पञ्चसु कलासु मन्द्रो मध्ये भवति चेन्मध्यश्चादौ तदा मन्द्रमध्यो ऽलंकारः । तास्वेव मन्द्रो ऽन्ते भवति
चेदन्तिमश्चादौ तदा मन्द्रान्तो ऽलंकारः ॥ ३०- ॥ प्रस्तारं लक्षयतित्यक्तान्तरमिति । त्यक्तान्तरं स्वरयुगं प्रथमतृतीयस्वरयुगमारुह्य त्यक्ताद् द्वितीयस्वरादारभ्य तादृक्त्यक्तान्तरं स्वरयुगं द्वितीयचतुर्थस्वरयुगम् , एवं तृतीयपञ्चमस्वरयुगं चतुर्थषष्टस्वरयुगं पञ्चमसप्तमस्वरयुगं च यद्यारोहति तदा प्रस्ताराख्यो ऽलंकारः ॥ -३१, ३१- ॥ प्रसादं लक्ष्यति । पूर्व इति । पूर्वः पूर्वः स्वरः
Scanned by Gitarth Ganga Research Institute