SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १५९ प्रकरणम् ६] प्रथमः स्वरगताध्यायः मध्यमेन तादृशोद्वाहितो मतः ॥ २४ ॥ सरिरिरिंग मपपपध । (१०) अन्त्यस्य तु त्रिरावृत्तौ त्रिवर्ण वर्णयन्त्यमुम् । सरिगगग मपधधध । (११) त्रयाणां तु त्रिरावृत्तौ पृथग्वेणिरुदीरितः ॥ २५ ॥ ससस रिरिरि गगग, ममम पपप धधध । (१२) इत्यारोह्यलंकाराः। अवरोहक्रमादेते द्वादशाप्यवरोहिणि । इत्यवरोह्यलंकाराः । मन्द्रादिमन्द्रमध्यश्च मन्द्रान्तः स्यादतः परम् ॥ २६ ॥ प्रस्तारश्च प्रसादो ऽथ व्यावृत्तस्खलितावपि । परिवर्ताक्षेपबिन्दवाहितोर्मिसमास्तथा ॥ २७ ॥ प्रेयनिष्कूजितश्येनक्रमोट्टितरञ्जिताः । संनिवृत्तपत्तो ऽथ वेणुश्च ललितस्वरः ॥ २८ ॥ ख्यो ऽलंकारः । एतस्मिन्नलंकारे मूर्च्छनायाः षडेव स्वरा व्याप्यन्ते । सप्तमस्य समाप्तिास्ति ॥ २३- | अधुनोद्वाहितं वर्णयति--मध्यमेनेति । त्रिस्वरयोः कलयोर्मध्यमेन स्वरेण तादृशा त्रिरावृत्तेन तूद्वाहिताख्यो ऽलंकारः ॥ २४ ॥ त्रिवर्ण लक्षयति-अन्त्यस्येति । त्रिस्वरयोः कलयोरन्त्यस्य त्रिरावृत्तौ त्रिवर्णाख्यो ऽलंकारः ॥ २४- ॥ पृथग्वेणिमाचष्टे-त्रयाणामिति । त्रिस्वरयोः कलयोस्त्रयाणामपि स्वराणां त्रिरावृत्तौ पृथग्वेणिरलंकारः । एतेषु त्रिष्वप्यलंकारेषु सप्तस्वरावृत्तिर्नास्ति ॥ २५ ॥ इत्यारोह्यलंकाराः ॥ अवरोह्यलंकारालक्षयतिअवरोहेति । एत एवावरोहक्रमेणोच्चारिता अवरोह्यलंकारा भवन्ति ॥ २५ ॥ इत्यवरोह्यलंकाराः ॥ संचार्यलंकारान्परिगणयति-मन्द्रादिरिति । मन्द्राद्यादयः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy