SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १५८ संगीतरत्नाकरः [वर्णालंकारस रिरि गगग मममम पपपपप धधधधधध निनिनिनि निनिनि । (५) स्वरद्वयं समुच्चार्य पूर्व पूर्वयुतं परम् । यदान्दोलितमारोहेपेडितो ऽसौ क्रमो ऽथ वा ॥ २१ ॥ सरि रिंग गम मप पध धनि । (६) एकान्तरं स्वरयुगं तादृक्पूर्वयुतं परम् । क्रमादारोहति यदा तदा ऽऽक्षिप्तं प्रचक्षते ॥ २२ ॥ __ सग गप पनि । (७) त्रिस्वरा ऽऽद्या कला ऽन्ये च पूर्वपूर्वान्तिमादिमे । कले स्तस्त्रिस्वरे यत्र संधिपच्छादनस्तु सः ॥ २३ ॥ सरिंग गमप पधनि । (८) यदा ऽऽद्याद्यस्त्रिरावृत्तः कलयोस्त्रिस्वरात्मनोः । तदोद्गीतः सससरिंग मममपध । (९) ब्रूते ॥ २० ॥ स्वरद्वयमिति । पूर्व स्वरद्वयमुच्चार्य परं पूर्वयुतम् , पूर्वापेक्षया परो द्वितीयः स्वरस्तद्युतं परं तृतीयमारोहेत् । पुनरपि तृतीययुतं चतुर्थ चतुर्थयुतं पञ्चमं पञ्चमयुतं षष्ठं षष्ठयुतं सप्तममान्दोलयन्यदा ऽऽरोहति तदा ऽसावलंकारः प्रेलितनामा ऽथ वा क्रमनामा भवति ॥ २१ ॥ आक्षिप्तं लक्षयतिएकान्तरमिति । पूर्वोक्तरीत्या यदैकान्तरं स्वरयुगमारोहति, प्रथमसहितं तृतीयं तृतीयसहितं पञ्चमं पञ्चमसहितं सप्तमं यदा ऽऽरोहति तदा ऽऽक्षिप्तालंकारः ॥२२॥ संधिप्रच्छादनं लक्षयति-त्रिस्वरेति । आद्या कला त्रिस्वरा, अन्ये द्वे कले पूर्वपूर्वान्तिमादिमे, पूर्वस्या: पूर्वस्याः कलाया यो ऽन्तिमः स्वरः स आदिमो ययोस्ते तथाविधे त्रिस्वरे यस्मिन्स त्रिकल: संधिप्रच्छादनः ॥ २३ ॥ उद्गीतं लक्षयति-यदेति । त्रिस्वरयोः कलयोर्यदा ऽऽद्याद्यः स्वरस्त्रिरावर्तते तदोद्गीता Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy