SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५७ प्रकरणम् ६] प्रथमः स्वरगताध्यायः इस्वैः स्वरैः स निष्कर्षो द्विर्द्विरुक्तैर्निरन्तरैः । सस रिरि गग मम पप धध निनि । (२) त्रिश्चतुर्वा स्वरोच्चारे गात्रवर्णमिमं विदुः ॥ १७॥ ससस रिरिरि गगग ममम पपप धधध निनिनि ।। सससस रिरिरिरि गगगग मममम पपपप धधधध निनिनिनि । (२) निष्कर्षस्यैव भेदौ द्वौ केचिदेतौ वभापिरे । प्लुतं दूस्वं प्लुतं इस्तं प्लुतं इस्वं प्लुतं स्वरम् ॥ १८ ॥ कुर्वन्क्रमाद्यदा ऽऽरोहेत्तदा विन्दुरयं मतः । सरि ग३म प३ध नि३ । (३) एकान्तरस्वरारोहमाहुरभ्युच्चयं बुधाः ।। १९ ।। सगपनि । (४) यत्रैकोत्तरवृद्धाभिरावृत्तिभिरुदीरिताः । आरुह्यन्ते स्वराः प्राह इसितं तं शिवप्रियः ॥ २०॥ स्वराणां दीर्घत्वाद्विलम्बितत्वाच्च क्रमाद्भेदः ॥ १६॥ ह्रस्वैरिति । ह्रस्वैः स्वरैडिद्धिरुक्तैः क्रमेणोच्चारितैनिष्कर्षालंकारः ॥ १६ ॥ त्रिरिति । स्वराणां त्रिश्चतुर्वोच्चारणे गात्रवर्णालंकारः ॥ -१७ ॥ मतान्तरेण गात्रवर्णस्य निष्कर्षान्तर्भावमाहनिष्कर्षस्यैवेति । एतौ द्वौ भेदौ त्रिश्चतुःस्वरोच्चारणरूपौ ॥ १७ ॥ प्लुतमिति । प्रथमस्वरं त्रिरुच्चार्य द्वितीयस्वरं सकृत् , तृतीयस्वरं त्रिः, चतुर्थस्वरं सकृत् , पञ्चमस्वरं त्रिः, षष्ठस्वरं सकृत् , सप्तमस्वरं त्रिरुचारयेत् , तदा बिन्द्राख्यो ऽलंकारः ॥ -१८, १८- ॥ एकान्तरेति । एकान्तरस्वरारोहणेनाभ्युच्चयाख्यो ऽलंकारः ॥ -१९ ॥ यत्रेति । यत्रं स्वराणामेकोत्तरवृद्धया ऽऽवृत्तिः, प्रथमः स्वर: सकृत् , द्वितीयो द्विः, तृतीयस्त्रिः, चतुर्थश्चतुः, पञ्चमः पञ्चकृत्वः, षष्ठः षट्कृत्वः, सप्तमः सप्तकृत्व उच्चार्यते तमलंकारं शिवप्रियः शाङ्गदेवो हसितमिति 1.रभ्युच्छ्यम् . Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy