________________
१५६
संगीतरत्नाकरः
संरिसं संगमसं संपधनिसं । (५) दीप्तान्तत्प्रतिकलं प्रस्तारः सो ऽभिधीयते । संरिर्स संगमसे संपधनिस । (६) तारमन्द्रविपर्यासात्तं प्रसादं प्रचक्षते ।। १३ ।। सरिसं संगमसं संपधनिसं । (७)
इति स्थायिगतालंकारा: ।
[वर्णालंकार
स्यातां विस्तीर्णनिष्कर्षौ विन्दुरभ्युच्चयः परः । हसितप्रेङ्खिताक्षिप्तसंधिप्रच्छादनास्तथा ।। १४ ।। उतद्वाहितौ तद्वत्रिवर्णो वेणिरित्यमी । द्वादशारोहिवर्णस्थालंकाराः परिकीर्तिताः ॥ १५ ॥ मूर्च्छनाऽऽदेः स्वराद्यत्र क्रमेणारोहणं भवेत् । स्थित्वा स्थित्वा स्वरैर्दधैः स विस्तीर्णो ऽभिधीयते ॥ १६ ॥ सारी गा मा पा धा नी । (१)
"
,
द्यन्तयोः मध्ये तृतीयचतुर्थी ; तृतीयस्यां तु कलायां प्रथमः स्वर एवाद्यन्तयोः मध्ये पञ्चमषष्ठसप्तमस्वराः ; एवं कलात्रयेण क्रमरेचितो ऽलंकारो भवति ॥११, १२॥ दीप्तान्त इति । क्रमरेचितस्य तिसृष्वपि कलासु यद्यन्तिमो दीप्तो भवति तदा प्रस्ताराख्यो ऽलंकारः ॥ १२ ॥ तारेति । प्रस्तारस्य तारमन्द्रविपर्यासात्प्रसादालंकारः । क्रमरेचितस्य कलात्रये पूर्वस्तारो ऽन्तिमस्तु मन्द्र एवेति ॥ १३ ॥ इति स्थायिगतालंकाराः ॥ आरोह्यलंकारान्परिगणयति - स्यातामिति ॥ १४, १५॥ विस्तीर्णालंकारं लक्षयति-— मूर्च्छनाऽऽदेरिति । मूर्च्छनायाः प्रथमस्वराद्दीर्वैः स्वरैः स्थित्वा स्थित्वा विलम्ब्य विलम्ब्य क्रमेण यत्रारोहणं भवेत्स विस्तीर्णालंकारः ।
1 • रभ्युच्छ्रयः
Scanned by Gitarth Ganga Research Institute