SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५५ प्रकरणम् ६] प्रथमः स्वरगताध्यायः तद्वैलोम्ये प्रसन्नान्तः सं सं सं । (२) प्रसन्नद्वयमध्यगे ॥९॥ दीप्ते प्रसन्नाद्यन्तः स्यात् सं सं सं । (३) तारयोर्मध्यगे पुनः । मन्द्रे प्रसन्नमध्याख्यमलंकारं विदो विदुः ॥ १० ॥ ___ सं सं स । (४) आद्यन्तयोर्मूर्च्छनाऽऽदिश्चेत्स्वरो ऽन्तर्द्वितीयकः । सैका कला ऽथ चेन्मध्ये स्तस्तृतीयचतुर्थकौ ॥ ११ ॥ सा द्वितीया पश्चमाद्यास्त्रयो ऽन्तश्चेत्कला परा। एवं कलात्रयेणोक्तो ऽलंकारः क्रमरेचितः ।। १२ ।। (क०) उद्देशक्रमेण त्रिषष्टिमलंकारान्दर्शयति—मन्द्रद्वयात्पर इत्यादिना त्रिषष्टिरुदिता मयेत्यन्तेन । इह ग्रन्थकारेण दिङ्मात्रप्रदर्शनार्थमुत्तरमन्द्रामधिकृत्य प्रसिद्धालंकाराणां प्रस्तारो लिखितः । तद्वन्मूर्च्छनाऽऽन्तरेप्वप्यलंकारप्रस्तारा द्रष्टव्याः ॥ ९-६३ ॥ (सु०) प्रसन्नादि लक्षयति---मन्द्रद्वयादिति । मन्द्रस्वरद्वयमुच्चार्य यदि सकृत्तारस्वर उच्चार्यते तदा प्रसन्नादिरलंकारः । तद्वैलोम्य इति । तस्य प्रसन्नादेविपरीतत्वे पूर्व सकृत्तारः पश्चाद् द्विमन्द्रश्चेत्, तदा प्रसन्नान्तः । प्रसन्नद्वयेति । यदि पूर्व मन्द्रः पश्चाद्दीप्त: पुनरपि मन्द्रस्तदा प्रसन्नाद्यन्तः । तारयोरिति । यदि पूर्व तार: पश्चान्मद्रः पुनरपि तारस्तदा प्रसन्नमध्यः ॥ ९, १० ॥ कमरेचितं लक्षयति-आद्यन्तयोरिति । मूर्च्छनाया: प्रथमः स्वरो यद्यादावन्ते च तिष्ठति, द्वितीयः स्वरो मध्ये, एवमेका कला ; द्वितीयकलायां तु मूर्च्छनाप्रथमस्वर एवा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy