SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १५४ संगीतरत्नाकरः [वर्णालंकारलक्षणार्थ प्रतिमूर्च्छनं तारमन्द्रव्यवहारमन्यथा ऽनेकधा करोति-मन्द्रः प्रकरण इति । द्विगुणो ऽष्टमः ॥ -३--८॥ (सु०) वर्णमुक्त्वा तदनुगतालंकारलक्षणमाह-~-विशिष्टमिति । केनचिल्लक्षणविशेषेण विशिष्टं वर्णसंदर्भ वर्णसमुदायमलंकारं प्रचक्षते भरतादयः । मतङ्गेनाप्यलंकारस्य लक्षणव्युत्पत्ती कथिते । यथा-" नन्वलंकारशब्देन किमुच्यते, व्युत्पत्तिर्वा तस्य कीदृशी? उच्यते- अलंकारशब्देन मण्डनमुच्यते । यथा कटककेयूरादिना ऽलंकारेण नारी पुरुषो वा मण्डितः शोभामावहेत्तथैतैरलंकारैः प्रसन्नादिभिरलंकृता वर्णाश्रया गीतिर्गातृश्रोतॄणां सुखावहा भवतीति । व्युत्पत्तिश्च यथा- 'डुकृञ् करणे' इत्यस्माद्धातोरलंशब्दपूर्वाद् घञ्प्रत्यये ऽलंकारशब्दः" इति ॥ तस्य बहुभेदत्वे ऽपि कियतांचित्कथनार्थ प्रतिजानीते... तस्येति ॥ स्थायिवर्णालंकारालँलक्षयति-येषामिति । आदावन्ते च येषामेक एव स्वरस्ते स्थायिवर्णालंकाराः । तान्परिगणयति-प्रसन्नादिरिति । एते सप्त स्थायिनि वर्णे स्थिताः, स्थाय्यलंकारा इत्यर्थः ॥ अलंकारप्रकरणोपयोगिनी परिभाषामाह-~-मन्द्र इति । अत्रास्मिन्नलंकारप्रकरणे मूच्छनायाः प्रथमः स्वरो मन्द्रशब्देनोच्यते । स एव मूर्च्छनाप्रथमस्वरो द्विगुणस्तारशब्देनोच्यते । यदा मूछनाप्रथमस्वरो मन्द्रो भवति तदा स एव मध्यस्तारशब्देनोच्यते । यदा तु मूर्च्छनाप्रथमस्वरो मध्यस्तदा स एव तारस्तारशब्देनोच्यते । विकल्पेनान्यथा मन्द्रतारादिशब्दवाच्यत्वमाह-पूर्वः पूर्व इति । पूर्वस्थानस्थ: स्वरो मन्द्रः परस्थानस्थस्तार इति । यदा मन्द्रस्थानस्थ: पूर्वस्तदा मध्यस्थानस्थस्तारः । यदा मध्यस्थानस्थः पूर्वस्तदा तारस्थानस्थस्तारः । अत्र मूर्च्छनाऽऽदिस्वरेणैव पूर्वेण भवितव्यमिति नियमो नास्तीति पूर्वमुक्तात्पक्षाद्भेदः । मन्द्रतारपर्यायानाहप्रसन्न इति । प्रसन्नमूदुमन्द्रशब्दमन्द्रो ऽभिधीयते । दीप्ततारशब्दाभ्यां तारः । मन्द्रतारयोलिपिविशेषं कथयति-मन्द्र इति । लिपौ मन्द्रः स्वरो बिन्दुशिराः शिरसि बिन्दुसहितो लेखनीयः, तारस्तु शिरस्यूर्ध्वरेखया सहितः । त्रिवचनास्वरः प्लुत इत्युच्यते । स त्रिरुचारणीय इत्यर्थः ॥ -३-८ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy