________________
१५२ संगीतरत्नाकरः
[वर्णालंकारविशिष्टं वर्णसंदर्भमलंकारं प्रचक्षते ॥ ३॥ एतेषां स्थाय्यादीनां त्रयाणां वर्णानाम् ‘सारी सारीगा सनिधा सारीगा' इत्येवं यथायोगं मिश्रणात्संचारी वर्णः परिकीर्तितः । यत्र गानक्रियायां यस्य वर्णस्य बाहुल्यं दृश्यते तत्र तेन व्यपदेशः कर्तव्य इति मन्तव्यम् ॥ १-२.॥
(सु०) वर्ण लक्षयति--गानक्रियेति । स्वराणां वक्ष्यमाणप्रकारेण गानक्रिया गानकरणम् , उच्चारणमिति यावत् । सा वर्णशब्देनोच्यते । स च वर्णश्चतुर्धा भवति-स्थाय्यारोह्यवरोही संचारी चेति । तत्र स्थायिवर्णलक्षणमाहस्थित्वा स्थित्वेति । यत्रैकस्यैव स्वरस्य स्थित्वा स्थित्वा विलम्ब्य विलम्ब्य प्रयोग उच्चारणं स स्थायिवर्णो विज्ञेयः । यथा षड्जस्य 'सासासासा', मध्यमस्य 'मामामामा' इति । परावारोहिवर्णावरोहिवो, अन्वर्थनामको, अर्थमनुगतमन्वर्थ नाम ययोस्तावन्वर्थनामको । नामार्थ एव तयोर्लक्षणम्--यत्र स्वराणामारोहः स आरोही वर्णः, यत्रावरोहः सो ऽवरोही वर्ण इति । एतेषां त्रयाणां संमिश्रणात्परस्परलक्षणसंचरणात्संचारी वर्ण उक्तः । मतङ्गेन त्वेवं संचारिवर्णलक्षणमुक्तम्
"यत्र ताने संचरन्ति स्वरा अन्त्यान्त्यसंहिताः ।
एकैकशो द्विशो वा स संचारी वर्ण उच्यते ॥ यथा मालवकैशिके-'सा सा स नि म म नि म प नि रि रि पा पनीपानिध' एवमादि ॥” १-२-॥
(क०) उक्तवर्णग्रथनविशेषरूपमलंकारं प्रतिवर्ण सविभागं लक्षयति -विशिष्टं वर्णसंदर्भमित्यादिना । वर्णसंदर्भो ऽलंकार इत्येतावत्युक्ते वर्णविशेषे संचारिणि व्यभिचारः स्यात् ; स मा भूदिति विशिष्टमिति विशेषणम् । वैशिष्टयं च नियतकलाऽऽदियुक्तत्वम् । इह प्रसन्नादिप्रभृतीनामलंकारत्वं गीतिरेतैरलंक्रियत इति करणव्युत्पत्त्या, यथा लोके हारादि
Scanned by Gitarth Ganga Research Institute