________________
प्रथमः स्वरगताध्यायः
अथ षष्ठं वर्णालंकारप्रकरणम्
गानक्रियोच्यते वर्णः स चतुर्धा निरूपितः । स्थाय्यारोहावरोही च संचारीत्यथ लक्षणम् ॥ १ ॥ स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः | स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ ॥ २ ॥ एतत्संमिश्रणाद्वर्ण: संचारी परिकीर्तितः ।
१५१
मध्यम साधारणं मध्यमग्राम एव । साधारणयोर्मध्ये मध्यमग्रामे मध्यमसाधारणमेव । ततश्च षड्जग्राम एव षड्जसाधारणमिति गम्यते । ते द्वे साधारणे कैशिके इत्युच्येते । केशाग्रवदणुत्वत इति कैशिकशब्दस्य प्रवृत्तिनिमित्तं दर्शितम् । ते एव षड्जमध्यमसाधारणे कैश्चिदाचार्यैप्रमसाधारणे इत्युच्येते । जातिसाधारणं लक्षयति - एकप्रामेति । समानग्रामोद्भवास्वेकांशस्वरासु जातिषु यत्समानं गानं भवेत्तदार्या मान्या आचार्या भरतादयो जातिसाधारणमवादिषुः । मतभेदेनान्यथा जातिसाधारणं लक्षयति- जातीति । केचिद्रागा एव शुद्धकेशिकमध्यमादयो जातिसाधारणमित्याहुः ॥ ७-१० - ॥
इति प्रथमे स्वरगताध्याये पञ्चमं साधारण प्रकरणम् ॥ ५ ॥
(क०) जातिसाधारण निरूपणे गानसंबन्धित्वेन प्रसक्तं वर्ण सप्रभेदं लक्षयति- गानक्रियेति । गानक्रियाया वर्णत्वं स्वरपदादेर्वर्णनाद्विस्तारकरणात् । एकस्यैवेति । एकैकस्येति वा । तत्रादौ 'सासासा रीरीरी ' इत्येवमादिप्रयोगः । द्वितीये ' सारीगामा' इत्येवमादिरूपः । परावन्वर्थनामकाविति । परावारोह्यवरोहिणावन्वर्थनामकौ । ' सरिगमपधनि 'इत्यारोदाही ' निधपमगरिस 'इत्यवरोहादव रोहीत्येवम् । एतत्संमिश्रणात्,
Scanned by Gitarth Ganga Research Institute