________________
१५०
संगीतरत्नाकरः
साधारणे कैशिके ते केशाग्रवदणुत्वतः । ते एव कैश्चिदुच्येते ग्रामसाधारणे बुधैः ॥ ९ ॥ एकग्रामोद्भवास्कांशासु जातिषु यद्भवेत् । समानं गानमार्यास्तज्जातिसाधारणं जगुः ॥ १० ॥ जातिसाधारणं केचिद्रागानेव प्रचक्षते ।
[ साधा० प्रकरणम् ५ ]
चतुष्टयस्यापि ग्रामद्वये प्रसक्तौ विकृतत्वे ऽपि स्वराणां पञ्चश्रुतित्वमनिष्टमिति मत्वा मध्यमसाधारणं मध्यम एव नियमयति - साधारणं मध्यमस्येति ॥ षड्जमध्यमसाधारणयोर्व्यपदेशान्तरे सप्रवृत्तिनिमित्तं दर्शयति-साधारणे इति । ते साधारणे षड्जमध्यमसाधारणे । केशाश्रवदणुत्वतः, चतुःश्रुतिकस्य च्युतत्वेन द्विश्रुतिकत्वापत्त्या ऽल्पत्वात् कैशिके इत्युच्येते । ते एव षड्जमध्यमसाधारणे एव ग्रामप्रतिनियतत्वात्कैश्चिद् बुधैर्ग्रामसाधारणे इत्युच्यते इत्यर्थः ॥ जातिसाधारणं लक्षयति - एकग्रामेति । जातिसाधारणमिति । जात्योर्वा जातिषु वा वर्णसाम्येन गानस्य यत्साधारणं तदेव तथोक्तम् ॥ ७– १०- ॥
(सु० ) काकलिसाधारणलक्षणमन्तरसाधारणलक्षणं च काकल्यन्तरस्वरलक्षणेनैवोक्तं मूर्च्छनाप्रकरणे 'श्रुतिद्वयं चेत्षड्जस्य' इत्यादिना । अतः षड्जसाधारणं मध्यमसाधारणं च लक्षयति-निषाद इति । निषादो यदि षड्जस्याद्यां श्रुतिं समाश्रयति, ऋषभश्चान्तिमां श्रुतिं तदा षड्जसाधारणम् । एवं गांधारो यदा मध्यमस्याद्यां श्रुतिं समाश्रयति पञ्चमश्चान्तिमां श्रुतिं तदा मध्यमसाधारणम् । षड्जसाधारणे निषादस्त्रिश्रुतिऋषभश्चतुःश्रुतिः । मध्यमसाधारणे गांधारस्त्रिश्रुतिः पञ्चमश्चतुःश्रुतिः ॥ ७, ७ ॥ साधारणे ग्रामयोर्नियमयति-- साधारणमिति ।
Scanned by Gitarth Ganga Research Institute