________________
१४९
प्रकरणम् ५] प्रथमः स्वरगताध्यायः
निपादो यदि पड्जस्य श्रुतिमाद्यां समाश्रयेत् । ऋपभस्त्वन्तिमां प्रोक्तं पड्जसाधारणं तदा ।। ७ ।। मध्यमस्यापि गपयोरेवं साधारणं मतम् ।
साधारणं मध्यमस्य मध्यमग्रामगं ध्रुवम् ॥ ८ ॥ न्तरयोरुपात्तयोस्तत्संबन्धवशादुद्देशक्रममुल्लध्यापि तयोः प्रयोगं दर्शयतिप्रयोज्यावित्यादिना । काकलीधैवताविति । अत्र काकलीति स्त्रीलिङ्गनिर्देशः । तत्परान्यतममिति । तस्मात्पड्जात्परेपु स्वरेप्वन्यतमम् , संनिहितः परो यदि लोप्यः स्यात्तदा तं विहाय तत्संनिहितमेव परमित्यर्थः । काकलिप्रयोगे ऽभिहितं प्रकारमन्तरप्रयोगे ऽप्यतिदिशति-एवं मध्यममिति ॥ -३-६ ॥
(सु०) काकल्युक्तं साधारणशब्दप्रवृत्तिप्रकारमन्तरे ऽप्यतिदिशतिअन्तरस्यापीति । अन्तरः स्वरो हि गांधारमध्यमयोः साधारणः, गांधारस्य मध्यमस्य च अतिदयग्रहणात । तस्यान्तरस्य गांधारमध्यमयोर्यत्साधारणत्वं तत्साधारणमित्यर्थः । काकल्यन्तरयोः प्रयोगनियममाह-प्रयोज्याविति । षड्जमुच्चार्य काकलिधैवतौ प्रयोक्तव्यौ । क्रमादित्यवरोहक्रमात् । ततश्च पूर्व काकली पश्चावतः प्रयोक्तव्यः । एवं मध्यममुच्चार्यान्तरर्षभाववरोहक्रमेण प्रयोक्तव्यौ । एतयोर्विकल्पनान्यथाप्रयोगनियमं कथयति-षड्जकाकलिनाविति । षड्जं काकलिनं चोच्चार्य ततः पुनः षड्जं व्रजेदुच्चारयेत् । तत्परान्यतमं च, तस्मात्षड्जात्परे ये, ऋषभगांधारमध्यमपञ्चमधैवतास्तेध्वन्यतममेकमुच्चारयेत् । एवं मध्यममन्तरस्वरं च प्रयोज्योचार्य पुनरपि मध्यमो ग्राह्यः । तस्मान्मध्यमात्परे ये पञ्चमधैवतनिषादषड्जर्षभास्तेष्वन्यतमश्च ग्राह्यः । अल्पप्रयोग इति । काकल्यन्तरः स्वरश्च सर्वत्र जातिरागादावल्पप्रयोगः ॥ -३-६ ॥
(क०) एवं काकलिसाधारणमन्तरसाधारणं च सप्रयोगमुक्त्वा षड्जमध्यमसाधारणे लक्षयति-निपादो यदीत्यादिना । स्वरसाधारण
Scanned by Gitarth Ganga Research Institute