SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४८ संगीतरत्नाकरः [साधारणअन्तरस्यापि गमयोरेवं साधारणं मतम् ॥ ३ ॥ प्रयोज्यौ पड्जमुच्चार्य काकलीधैवतौ क्रमात । एवं मध्यममुच्चार्य प्रयुञ्जीतान्तरर्षभौ ॥ ४ ॥ पड्जकाकलिनौ यद्वोच्चार्य षड्ज पुनव्रजेत् । तत्परान्यतमं चैवं मध्यमं चान्तरस्वरम् ॥ ५ ॥ प्रयुज्य मध्यमो ग्राह्यस्तत्परान्यतमो ऽथ वा । अल्पप्रयोगः सर्वत्र काकली चान्तरः स्वरः ॥ ६॥ निर्देशः । अतः ‘साधारणं भवेद्वेधा 'इत्यादिषु साधारणपदस्य साधारण्यपदपर्यायत्वमवसेयं माधुर्ये मधुरमिति प्रयोगवत् ॥ १-२-॥ (सु०) इदानीं साधारणलक्षणं कथयति—साधारणमिति । तत्र स्वरजात्यन्यतरत्वमेव साधारणसामान्यलक्षणमिति मन्वानो विशेषणद्वयमेव विभज्य निरूपयति–साधारणं द्वेधा द्विप्रकारं भवेत्स्वरजात्योर्विशेषणात् । ततश्चैकं स्वरसाधारणमेकं जातिसाधारणमिति । तत्र स्वरसाधारणस्य भेदानाह-स्वरसाधारणमिति । स्वरसाधारणं चतुर्धा चतुःप्रकार काकलिसाधारणमन्तरसाधारणं षड्जसाधारणं मध्यमसाधारणं चेति । वक्ष्यमाणलक्षणस्य साधारण्यस्य कथं समानशब्दपर्यायशब्दवाच्यत्वम् ? अत आह–साधारण इति । काकली स्वरः षड्जनिषादयोः साधारणस्तुल्यावस्थितिर्भवति, निषादस्य षड्जस्य च श्रुतिद्वयग्रहणात् । अत: कारणात्तस्य काकलिन उभयोनिषादषड्जयोर्यत्साधारण्यं तत्साधारणं विदुः संगीतज्ञाः । साधारणशब्दाद्भावे प्यञ्प्रत्यये साधारणस्य भावः साधारण्यमिति ॥ १-२- ॥ (क०) अन्तरस्यापीति । अन्तरस्य विकृतत्वेन चतु:श्रुतिकस्य गांधारस्यापि, एवमुक्तप्रकारेणोभयाश्रयत्वेन गमयोः शुद्धयोः श्रुतिसंबन्धित्वेन साधारणं साधारण्यं मतमिष्टम् । स्वरसाधारणविशेषधर्मत्वेन काकल्य Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy