SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रथम: स्वरगताध्यायः १४७ अथ पञ्चमं साधारणप्रकरणम् साधारणं भवेद् द्वेधा स्वरजातिविशेषणात् । स्वरसाधारणं तत्र चतुर्धा परिकीर्तितम् ॥ १॥ काकल्यन्तरपड्जैश्च मध्यमेन विशेषणात् । साधारणः काकली हि भवेत्पड्जनिपादयोः ॥ २ ॥ साधारण्यमतस्तस्य यत्तत्साधारणं विदुः । भवन्ति । अथ वा मन्द्रमध्यताराख्यस्थानप्राप्तय उपयोगिनो भवन्ति । संगीतसमयसारे ऽप्युक्तम्-'ननु तानानां यज्ञानां च कथमेकत्र व्यवहार: ? उच्यतेएकस्मिन्नपि तान उच्चारिते ऽग्निष्टोमादियागानामेकैकस्य फलोपलव्धेर्गायकानां यज्ञस्तानादेव सिध्यति' इति । अतो नासंगतम् ॥ ७१-९१ ॥ इति प्रथमे स्वरगताध्याये चतुर्थ ग्राममूर्च्छनाक्रमशुद्धतानकूटतानप्रकरणम् ॥ ४ ॥ (क०) गीते विकृतस्वरप्रयोगेण वैचित्रीं क्वचिद्गानसाम्यं च दर्शयितुं साधारणमवधारयति—साधारणमित्यादिना । स्वरजातिविशेषणादिति । स्वरसाधारणं जातिसाधारणमित्येवमित्यर्थः । तत्र तयोर्मध्ये स्वरसाधारणं चतुर्धा । काकल्यन्तरषड्जैश्च मध्यमेन विशेषणादिति । काकलिसाधारणमन्तरसाधारणं पड्जसाधारणं मध्यमसाधारणमित्येवमित्यर्थः ॥ अनेकाश्रयत्वेन लोकसिद्धं साधारणशब्दार्थ प्रकृते योजयति-साधारणः काकलीत्यादिना । हि यस्मात्कारणात्काकली विकृतश्चतुःश्रुतिको निषादः षड्जनिषादयोः शुद्धयोः साधारणो भवेत्तदुभयश्रुतिसंबन्धित्वेन, अतः कारणात्तस्य काकलिनो यत्साधारण्यं तत्साधारणं विदुः । तदेव साधारण्यं साधारणमिति पदेनापि विदुरित्यर्थः । धर्मपरत्वेन साधारणमिति नपुंसक Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy